Enter your Email Address to subscribe to our newsletters

रायबरेली-नगरम्, २८ अप्रैलमासः (हि.स.)। मेरठ-नगरात् प्रयागराज-नगरं यावत् ५९४ किमी-दीर्घः गङ्गा-एक्सप्रेस-वे बुधवासरात् देशस्य विकासाय प्रवर्तिष्यते। २९ अप्रैल-दिने हरदोई-जनपदे प्रधानमन्त्री एतस्य लोकार्पणं करिष्यति। रायबरेली-नगरे प्रधानमन्त्रिणः कार्यक्रमस्य सजीव-प्रसारणं द्रष्टुं विशेष-कार्यक्रमस्य आयोजनं क्रियते। एषः कार्यक्रमः ऊँचाहार-तहसीलस्य रोजइया-भीखमशाह-समीपे स्थिते टोल-प्लाजा-स्थले भविष्यति।
यूपीडा-संस्थायाः अधीक्षण-अभियन्ता विजयकुमारस्य अनुसारं गङ्गा-एक्सप्रेस-वे-निर्माणं सम्पन्नम् अस्ति। एषः मार्गः चतुर्षु समूहेषु विभक्तः अस्ति, चतुर्थ-समूहे रायबरेली-प्रतापगढ़-प्रयागराज-जनपदाः अन्तर्भवन्ति। अस्य खण्डस्य दीर्घता प्रायः १५६ किमी अस्ति। मार्ग-निर्माणं, बैरिकेडिंग् तथा संकेत-पट्टिकाः अपि स्थापिताः सन्ति।
अस्य निर्माणेन जनानां गमनागमनं सुलभं भविष्यति तथा १२ जनपदान् संयोजयन् अयं एक्सप्रेस-वे कृषि-उत्पादानां महत्सु विपणेषु परिवहनं सुलभं करिष्यति। औद्योगिक-परिसरस्य निर्माणार्थं २०० एकड़-परिमिते क्षेत्रे योजना अपि अस्ति। ऐहार-तथा जगतपुर-स्थाने प्रवेश-निर्गमन-बिन्दवः निर्मिताः सन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता