Enter your Email Address to subscribe to our newsletters

बिलासपुर-रायपुर-नगरयोः, २८ अप्रैलमासः (हि.स.)। बिलासपुर-जनपदे स्थिते गुरुघासीदास-केन्द्रीय-विश्वविद्यालये भगवत: रामस्य महापुरुषाणां च विषये आपत्तिजनक-टिप्पणी-प्रकरणे अधुना विश्वविद्यालयस्य सुरक्षा-प्रभारिणी सीमा-राय: इत्यस्यै कारण-दर्शय-सूचना निर्गता, तस्मिन् विषये उत्तरं याचितम्। सहैव आरोपितेषु चतुर्षु छात्रेषु प्राथमिकी अभिलेखिता, ते च छात्रावासात् निष्कासिताः।
सुरक्षा-प्रभारिण्यै सीमा-राय: इत्यस्यै विश्वविद्यालय-परिसरे जातस्य हिंसक-कोलाहलस्य, युद्धस्य, सुरक्षा-व्यवस्थायाः च त्रुटेः विषये २७ अप्रैल-दिने एषा सूचना प्रदत्ता। प्रबन्धनेन तस्मात् उत्तरं याचितं यत् छात्राणां मध्ये विवादः वर्धमानः सन् सति सुरक्षा-व्यवस्था किमर्थं विफला अभवत्, तथा च परिस्थितिः समये न किमर्थं नियन्त्रिता। सुरक्षा-प्रभारिण्या सह मुख्य-संरक्षकेन तथा स्वामी-विवेकानन्द-छात्रावासस्य संरक्षकेन अपि स्वकर्तव्येषु उपेक्षां कृतवन्तौ इति कारणेन सूचना प्रदत्ता। एतेभ्यः अधिकारिभ्यः निर्दिष्ट-समये स्व-व्याख्या प्रबन्धनस्य समक्षं प्रस्तोतव्या।
उल्लेखनीयम् यत् विवादस्य आरम्भः २४ अप्रैल २०२६ तिथौ रात्रौ प्रायः द्वादश-एक-वादनयोः मध्ये अभवत्, यदा विधि-विभागस्य छात्राणां कस्यचित् इंस्टाग्राम-व्हाट्सएप-समूहस्य अन्तर्गतं धार्मिक-जातिगत-टिप्पण्यः कृताः। तासु वार्तालापेषु भगवान् रामः, भगवान् परशुरामः, डॉ.भीमराव-अम्बेडकरः इत्येतेषां विषये अपशब्दाः प्रयुक्ताः। अपरं च, कस्यचित् छात्रेण “राजपूतान् मुस्लिमान्” इति उक्त्या कोलाहल: अधिकः अभवत्। यदा एतानि आपत्तिजनक-वार्तालाप-चित्राणि छात्राणां मध्ये प्रसारितानि, तदा परिसरे कोलाहल: व्याप्तः। क्रुद्धाः छात्राः स्वामी-विवेकानन्द-छात्रावासस्य पुरतः समागत्य स्थितवन्तः, ततः छात्रयोः द्वयोः गुटयोः मध्ये युद्धम् अभवत्।
घटनायाः सूचना प्राप्तमात्रे बजरंग-दल-कार्यकर्तारः विश्वविद्यालयस्य निरोधनं कृत्वा दोषिणां विरुद्धं कठोर-कार्यवाह्याः आग्रहं कृतवन्तः।
आरक्षकेण चतुर्षु आरोपितेषु—तूफानचन्द्र-नायक:, अंशुमान-सिंह, कौस्तुभ-मणि-पाण्डेय:, प्रियांशु-सिंह—इत्येतेषु भारतीय-न्याय-संहिता-धारासु २९९, १९६, ३५३(१C), ११५, ३(५) इत्यादिषु अन्तर्गतं प्रकरणं अभिलेखितम्।
विश्वविद्यालय-प्रबन्धनेन त्वरित-कार्यवाह्यां कृत्वा चत्वारः छात्राः छात्रावासात् निष्कासिताः, तेषां छात्रावास-प्रवेशः अपि निषिद्धः कृतः। प्रबन्धनस्य लिखित-शिकायतेन बिलासपुर-जनपदस्य कोनी-थाने सम्बद्ध-छात्राणां विरुद्धं प्राथमिकी अभिलेखिता। निष्कासित-छात्रैः आरोपः कृतः यत् ते अर्धरात्रौ पूर्वसूचनां विना छात्रावासात् निष्कासिताः, तेषां परीक्षायाः आवश्यकाः पुस्तकानि, टिप्पण्यः, प्रवेश-पत्राणि च अद्यापि कक्षेषु अवरुद्धानि सन्ति, येन ते परीक्षां दातुं असमर्थाः सन्ति।
अस्य विषयस्य गम्भीर-अनुसन्धानार्थं चतुर्सदस्यीया निरीक्षण-समितिः गठिता, तस्यै त्रिदिनाभ्यन्तरे स्व-प्रतिवेदनं समर्पयितुं निर्देशः दत्त:।
हिन्दुस्थान समाचार / अंशु गुप्ता