Enter your Email Address to subscribe to our newsletters

पूर्वी सिंहभूमम्, 28 अप्रैलमासः (हि.स.)।
कौशल-वर्धनस्य उद्देश्येन टाटा-एजुकेशन-एक्सीलेंस-प्रोग्राम् (टीईईपी २.०) अन्तर्गतं टेल्को-स्थिते गुलमोहर-हाई-स्कूले मङ्गलवासरे स्मार्ट-डिजिटल-सिटिजनशिप-प्रोग्राम् आयोजितः।
कार्यक्रमे विद्यार्थिभ्यः डिजिटल-जीवनसम्बद्धेषु महत्त्वपूर्णेषु विषयेषु जानकारी प्रदत्ता। अस्मिन् ऑनलाइन-गोपनीयता, पासवर्ड-सुरक्षा, साइबर-ठगी-पहचानम्, डिजिटल-फुटप्रिण्टस्य अवबोधनम्, ऑनलाइन-ग्रूमिङ्ग-इत्यादिषु संवेदनशील-विषयेषु विशेषतः चर्चा कृता। सहैव विद्यार्थिभ्यः एतदपि अवगतं कृतम् यत् डिजिटल-मञ्चेषु तेषां व्यक्तिगत-सूचनाः कथं संगृह्यन्ते, कथं च उपयुज्यन्ते।
परस्पर-क्रियात्मक-गतिविधिभिः, वास्तविक-जीवन-उदाहरणैः अनुभवात्मक-शिक्षणेन च विद्यार्थिनः चिन्तयितुं, प्रश्नान् कर्तुं, सम्यक् निर्णयं ग्रहीतुं च प्रेरिताः।
अस्य सत्रस्य संचालनं शिक्षकाभ्यां विपुल-कुमार-सुमीत-सेनाभ्यां कृतम्, छात्र-प्रशिक्षक-दलेन च सहयोगः प्रदत्तः। अक्षत-सरकारः, सहर्ष-कुमारः, अमृत-कुमार-सिंहः, आराध्या-अभिग्यानः, आदर्श-कुमार, आरुष-इत्यादयः छात्र-प्रशिक्षकाः पासवर्ड-लैब्, फ्रॉड-रडार, ऑनलाइन-सुरक्षा-जागरूकता-इत्यादि-गतिविधिभिः कार्यक्रमं रोचकं कृतवन्तः।
---------------
हिन्दुस्थान समाचार