भारत-अफ्रीकी संबंधो निर्णायकः अथ परिवर्तनकारिण्यां दिशि अग्रे वर्धते- विदेश राज्यमंत्री मार्गेरिटा
नवदिल्ली, 28 अप्रैलमासः (हि.स.)। पबित्रा मार्गेरिटा मङ्गलवासरे अवदत् यत् भारत-अफ्रीका-सम्बन्धाः अधुना निर्णायक-परिवर्तनकारी-दिशायां अग्रे गच्छन्ति। तेन उक्तं यत् एते सम्बन्धाः शताब्दिप्राचीन-सांस्कृतिक-व्यापारिक-औपनिवेशिक-संघर्ष-सामान्य-इतिहासे
कार्यक्रम में विदेश राज्य मंत्री मार्गेरिटा एवं संघ के प्रचार प्रमुख आंबेकर


नवदिल्ली, 28 अप्रैलमासः (हि.स.)।

पबित्रा मार्गेरिटा मङ्गलवासरे अवदत् यत् भारत-अफ्रीका-सम्बन्धाः अधुना निर्णायक-परिवर्तनकारी-दिशायां अग्रे गच्छन्ति। तेन उक्तं यत् एते सम्बन्धाः शताब्दिप्राचीन-सांस्कृतिक-व्यापारिक-औपनिवेशिक-संघर्ष-सामान्य-इतिहासे आधारिताः सन्ति। तेन अफ्रीका भारतस्य वैश्विक-नीतेः केन्द्रीय-स्तम्भः इति निर्दिष्टम्, तथा च एषा सहकारिता समानता-परस्पर-सम्मान-साझा-विकास-सिद्धान्तेषु अधिष्ठिता अस्ति इति उक्तम्।

भारत मंडपम, नवी-दिल्ली-नगरे आयोजिते “युवा-भारत-ग्लोबल-फोरम्” कार्यक्रमे भारत-अफ्रीका-सम्बन्धानां विषये विस्तृता चर्चा अभवत्। अस्मिन् राष्ट्रिय स्वयंसेवक संघ-प्रचार-प्रमुखः सुनील आंबेकर, राजनयिकाः, नीति-निर्मातारः, चिन्तन-संस्थानानि, व्यापार-संगठनानि तथा मीडिया-प्रतिनिधयः सहभागीभूताः। कार्यक्रमस्य आयोजनं चकबल ग्रुप-इत्यनेन कृतम्, यस्य उद्देश्यं वैश्विक-सहकारिता-संवादयोः सुदृढीकरणम् अस्ति।

मन्त्री मार्गेरिटा “विकसित-भारत@२०४७” तथा अफ्रीकादेशस्य “एजेंडा २०६३” इत्योः साम्यं निर्दिश्य अवदत् यत् उभयोः लक्ष्यं समावेशि-सतत-विकासः अस्ति। तेन उक्तं यत् भारतस्य विकास-साझेदारी क्षमता-निर्माण-जीविका-सृजन-प्रौद्योगिकी-हस्तान्तरण-डिजिटल-सशक्तिकरण-जलवायु-सहकार्येषु केन्द्रिताऽस्ति। एषा नीति: शोषण-आधारिता न, किन्तु सशक्तिकरण-आधारिता अस्ति।

तेन आइटीइसी तथा आइसीसीआर-इत्यादीनां योजनानां उल्लेखः कृतः, येन मानव-संसाधन-विकासः प्रोत्साहितः। अफ्रीकायां भारतस्य सप्तदश (१७) नवीन-मिशनानां उद्घाटनेन कुल-संख्या षट्चत्वारिंशत् (४६) अभवत्। त्रिंशत्-लक्ष-भारतीय-प्रवासी-समुदायः आर्थिक-सांस्कृतिक-सम्बन्धानां दृढ-सेतु: इति तेन उक्तम्।

कार्यक्रमे अंगोला, केन्या, इथियोपिया-इत्यादीनां देशानां प्रतिनिधयः सहभागीभूताः। सहैव एएआरडीओ तथा एएएलसीओ इत्यादीनां अन्तरराष्ट्रीय-संगठनानां सहभागिता अपि आसीत्। मन्त्री अवदत् यत् एतादृशाः मंचाः भारत-अफ्रीका-सहकारितां अधिकां गतिशीलां भविष्याभिमुखीं च कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति।

---------------

हिन्दुस्थान समाचार