Enter your Email Address to subscribe to our newsletters



भोपाल-नगरम्, २८ अप्रैलमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन-यादवः मङ्गलवासरे कान्हा-व्याघ्र-अभयारण्ये वन्य-महिष-पुनर्स्थापन-योजनायाः शुभारम्भं कृतवान्। असम-राज्यस्य काजीरंगा-राष्ट्रीय-उद्यानात् आनीता: चतस्र: वन्य-महिष्य: बालाघाट-जनपदस्य सूपखार-क्षेत्रे “सॉफ्ट-रिलीज्” विधिना विमुक्ताः।
सः उक्तवान् यत् शतवर्षानन्तरं एषा प्रजातिः पुनः मध्यप्रदेशे स्थापितुं प्रयत्नः क्रियते, यः जैव-विविधता-संरक्षणाय तथा पारिस्थितिकी-सन्तुलनाय महत्त्वपूर्णः अस्ति। एतेषु महिषेषु तिस्र: स्त्री-महिष्य: एकः च नरः सन्ति।
अस्याः योजनायाः उद्देश्यं तृण-भूमेः संरक्षणं, पारिस्थितिकी-तन्त्रस्य सुदृढीकरणं तथा पर्यटन-विकासः अपि अस्ति। असम-राज्येन सह सहयोगेन एषः प्रयासः कृतः, यः राज्ये वन्य-जीव-संरक्षणस्य दिशि महत्त्वपूर्णः पदक्षेप: इति उक्तम्।
हिन्दुस्थान समाचार / अंशु गुप्ता