काजीरंगात् अद्य मध्यप्रदेशम् आगमिष्यन्ति चतस्रः वन-महिष्यः, मुख्यमन्त्री सूपखार-प्रदेशे पुनर्स्थापनस्य शुभारम्भं करिष्यति
भोपालनगरम्, २८ अप्रैलमासः (हि.स.)। मध्यप्रदेशे शताधिक-वर्षपर्यन्तं विलुप्ता ‘वन-महिषी’ (वाइल्ड-बफेलो) नाम्नी प्रजातिः पुनः स्थापितुं प्रवर्तते। असम-राज्यस्य काजीरंगात् चतस्रः महिष्यः मध्यप्रदेशं प्रति आनयन्ते। मुख्यमन्त्री डॉ.मोहन-यादवः अद्य बालाघा
जंगली भैंस (प्रतीकात्मक)


भोपालनगरम्, २८ अप्रैलमासः (हि.स.)। मध्यप्रदेशे शताधिक-वर्षपर्यन्तं विलुप्ता ‘वन-महिषी’ (वाइल्ड-बफेलो) नाम्नी प्रजातिः पुनः स्थापितुं प्रवर्तते। असम-राज्यस्य काजीरंगात् चतस्रः महिष्यः मध्यप्रदेशं प्रति आनयन्ते। मुख्यमन्त्री डॉ.मोहन-यादवः अद्य बालाघाट-जनपदस्य सूपखार-तथा-टोपला-प्रदेशयोः कार्यक्रमे एतान् वन-महिषीः स्वाभाविक-आवासे विमोच्य पुनर्स्थापन-अभियानस्य शुभारम्भं करिष्यति।

जनसम्पर्क-अधिकारी के.के.जोशी उक्तवान् यत् मुख्यमन्त्री सूपखार-प्रदेशे येषां चतसृणां वन-महिषीणां विमोचनं करिष्यति, तेषु तिस्रः स्त्रीलिङ्गिकाः एकः च पुंलिङ्गकः महिषः अस्ति। अस्मिन् अवसरे जनपदस्य प्रभारी-मन्त्री उदय-प्रताप-सिंहः, अधिकारीगणः, स्थानीय-जनप्रतिनिधयः नागरिकाश्च उपस्थिताः भविष्यन्ति। अस्य प्रयत्नस्य फलस्वरूपं महिष-प्रजातेः संरक्षणं वर्धिष्यते तथा राज्यस्य वन-पारिस्थितिकी-तन्त्रं अपि सुदृढं भविष्यति।

जोशीमहोदयेन उक्तं यत् अस्य महत्त्वाकाङ्क्षिण्याः परियोजनायाः अन्तर्गतं असमस्य काजीरंगात् वन-महिष्यः कान्हा-टाइगर-रिजर्व प्रति आनयन्ते। प्रथम-चरणे चतसृणां महिषाणां दलेन यात्रां आरब्धम् अस्ति। समग्रतया पञ्चाशत् (५०) महिषीणां समूहः ‘फाउण्डर्-पॉपुलेशन’ इति रूपेण आनयितुं लक्ष्यं निर्धारितम् अस्ति। अस्मिन् ऋतौ अष्ट (८) महिष्यः स्थानान्तरिताः भविष्यन्ति।

अनया परियोजनया सह मध्यप्रदेश-असमयोः मध्ये वन्यजीव-आदान-प्रदानस्य नूतनः अध्यायः अपि आरभ्यते। असमात् गण्डकद्वयम् (राइनो-युग्मम्) मध्यप्रदेशं आनयिष्यते, ये भोपाल-स्थिते वन-विहार-राष्ट्रीय-उद्याने स्थाप्यन्ते। तस्य प्रतिदाने मध्यप्रदेशः असमस्य आग्रहानुसारं त्रयः व्याघ्राः षट् मकराश्च प्रेषयिष्यति।

चीता-पुनर्स्थापनस्य ऐतिहासिक-सफलतायाः अनन्तरं अधुना वन-महिषीणां पुनरागमनात् प्रदेशस्य जैव-विविधतायां नूतनः आयामः योज्यते। एषः प्रयत्नः केवलं प्रजाति-संरक्षणस्य प्रयत्नः न, अपि तु राज्यस्य वन-पारिस्थितिकी-तन्त्रस्य सुदृढीकरणे महत्त्वपूर्णं पदम् अस्ति। मध्यप्रदेशः पूर्वमेव ‘टाइगर-स्टेट्’ तथा ‘लेपर्ड-स्टेट्’ इति रूपेण प्रसिद्धः अस्ति; वन-महिषीणां पुनर्स्थापनं तस्य गौरवं अधिकं सुदृढं करिष्यति।

उल्लेखनीयम् यत् मध्यप्रदेशे वन-महिषीणां जनसंख्या प्रायः शतवर्षपूर्वमेव समाप्ता आसीत्। कान्हा-प्रदेशस्य सूपखार-क्षेत्रे १९७९ तमे वर्षे अन्तिमवारं वन-महिषी दृष्टा आसीत्। अतिशिकारः, मानव-हस्तक्षेपः, आवास-क्षयः, तृणभूमिनां नाशश्च अस्य प्रमुख-कारणानि आसन्। अधुना तेषां स्वाभाविक-जनसंख्या मुख्यतया असम-प्रदेशे एव सीमिता अस्ति, छत्तीसगढ़े तु अत्यल्पा दृश्यते।

भारतीय-वन्यजीव-संस्थानस्य (देहरादून) अध्ययनानुसारं कान्हा-टाइगर-रिजर्व वन-महिषीणां पुनर्स्थापनाय सर्वाधिकम् उपयुक्तं स्थानं ज्ञातम्। अत्र विस्तीर्णाः तृणभूमयः, पर्याप्ताः जलस्रोतांसि, न्यूनः मानव-हस्तक्षेपश्च एतस्याः प्रजातेः अनुकूलाः परिस्थितयः सन्ति। सूपखार-प्रदेशे महिषीणां विमोचनेन एषा ‘वाइल्ड-टू-वाइल्ड’ पुनर्स्थापन-परियोजना नूतनं चरणं प्रविशति।

हिन्दुस्थान समाचार / अंशु गुप्ता