Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 28 अप्रैलमासः (हि.स)।
नीत्यायोगो भारतस्य डिजिटल-पब्लिक-इन्फ्रास्ट्रक्चर (डीपीआई) यात्रायाः अग्रिम-चरणाय “DPI@2047” इति नाम्ना रणनीतिक-मार्गचित्रं प्रकाशितवान्। अस्य उद्देश्यः डिजिटल-पब्लिक-इन्फ्रास्ट्रक्चर-माध्यमेन देशे समावेशि-तीव्र-आर्थिक-विकासस्य प्रवर्धनम् अस्ति। एषा पहलः “विकसित-भारत-२०४७” इति लक्ष्यं दृष्ट्वा निर्मिता अस्ति।
आयोगस्य कथनानुसारं एतत् मार्गचित्रं द्वाभ्यां चरणाभ्यां कार्यं करिष्यति। प्रथमः चरणः “डीपीआई २.०” (२०२५–२०३५) इति, यस्मिन् जीविका-आजीविका-वृद्धौ विशेष-केन्द्रणं भविष्यति। द्वितीयः चरणः “डीपीआई ३.०” (२०३५–२०४७) इति, यस्य लक्ष्यं व्यापक-समृद्धिः अस्ति। डीपीआई २.० अन्तर्गतं सूक्ष्म-मध्यम-लघु-उद्योगाः, कृषि-क्षेत्रम्, शिक्षा तथा स्वास्थ्य-क्षेत्रेषु परिवर्तनस्य योजना अस्ति। सहैव ऋण-व्यवस्था, डिजिटल-लेनदेन, दत्तांशस्य (डेटा) उत्तम-उपयोगः तथा कृत्रिम-बुद्धिमत्ता (एआई) प्रयोगस्य प्रोत्साहनम् अपि भविष्यति। अस्य पहलस्य मुख्योद्देश्यः डिजिटल-प्रणालीं केवलं परिचय-भुगतान-सरकारी-योजनासु सीमितां न स्थापयित्वा, रोजगार-उत्पादकता-विपणि-प्रवेश-वृद्धये उपयोगः करणीयः इति।
कार्यक्रमस्य समये सुमन बेरी अवदत् यत् अधुना विकासस्य केन्द्रं केवलं जीडीपी-परिमाणे न, अपि तु उत्पादकता-वृद्धौ भवेत्। तथा अजय कुमार सूद अवदत् यत् प्रौद्योगिक्याः सम्यक् उपयोगः तदा एव सम्भवः, यदा सा विशाल-स्तरेण अनुप्रयुक्ता भवति तथा तस्मिन् विश्वासः सुरक्षा च स्यात्। अपि च निधि छिब्बर अवदत् यत् एतत् मार्गचित्रं राज्येषु अपि डिजिटल-परिवर्तनं साधयिष्यति, येन तेषां विकास-गति तीव्रा भविष्यति।
विशेषज्ञानां मतानुसारं डीपीआई तथा एआई संयोगेन भारतः एतादृशं मॉडलं निर्मातुं शक्नोति, यत् रोजगार-वृद्धौ, जनजीवन-सुधाराय तथा अर्थव्यवस्थायाः सुदृढीकरणाय सहायकं भविष्यति। समग्रतया एतत् मार्गचित्रं भारतस्य डिजिटल-यात्रां नूतन-चरणं प्रति नयितुं तथा व्यापक-विकासं सुनिश्चेतुं महत्त्वपूर्णं पादं मन्यते।
---------------
हिन्दुस्थान समाचार