Enter your Email Address to subscribe to our newsletters

वाराणसी-नगरम्, २८ अप्रैलमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी-महाभागः अवदत् यत् देशस्य विकसित-राष्ट्र-निर्माणस्य प्रक्रिया निरन्तरं प्रवहति, यस्य सुदृढतमः आधारः भारतस्य नारीशक्तिः अस्ति। सः उक्तवान् यत् सर्वेभ्यः मातृभ्यः भगिनीभ्यः च एकस्य महायज्ञस्य आरम्भाय आशीर्वादं ग्रहीतुं सः आगतः अस्ति, यस्य प्रमुखं लक्ष्यं लोकसभा-विधानसभा-संस्थासु महिलानां कृते आरक्षणस्य कार्यान्वयनम् अस्ति।
सः अवदत् यत् अस्माभिः प्रयासः कृतः, किन्तु सपा-कांग्रेस-आदिभिः विपक्ष-दलैः अस्य मार्गे बाधा कृता, येन लक्ष्यं सम्पूर्णतया प्राप्तुं न शक्यते। तथापि सः प्रतिज्ञां कृतवान् यत् महिला-आरक्षणस्य कार्यान्वयनार्थं सः किमपि प्रयासं न त्यक्ष्यति।
प्रधानमन्त्री मोदी वाराणसी-नगर्यां बाबा-विश्वनाथ-नगरीस्थे बरेका-क्षेत्रे आयोजिते नारी-वन्दन-सम्मेलने षट्सहस्र-त्रिशत-त्रिंशत्-कोटि-रूप्यक-परिमितानां १६३ परियोजनानां लोकार्पणं शिलान्यासं च कृत्वा भाषणं कृतवान्। अस्मिन् अवसरे सः द्वे अमृत-भारत-एक्सप्रेस-रेलयान-सेवे हरित-ध्वजेन प्रारब्धवान्, ये बनारस-पुणे तथा अयोध्या-मुम्बई मार्गे सञ्चरिष्यतः। सहैव सः बनास-डेयरी-संस्थायाः त्रीणि लक्षाधिक-एकविंशति-सहस्र-दुग्ध-उत्पादक-कृषकाणां कृते बोनस-राशिं तेषां धनागारेषु अन्तरितवान्।
सः उक्तवान् यत् काशी देवी-शक्तिस्वरूपाणां दिव्य-नगरी अस्ति, यत्र मातृ-शक्ति-सम्मानं समाजस्य सुदृढीकरणस्य मूलम् अस्ति। सः पूर्व-स्थितिं स्मृत्वा अवदत् यत् महिलाः अनेक-कठिनताः अनुभूतवत्यः, किन्तु अद्य ताः आत्मनिर्भरत्वं प्रति अग्रसराः सन्ति। स्वयं-सहायता-समूहैः सह सम्बद्धाः त्रि-कोटि-स्त्रियः “लखपति-दीदी” इति रूपेण सशक्ताः जाताः इति सः अवदत्।
प्रधानमन्त्री उक्तवान् यत् महिलानां सैन्य-क्षेत्रेऽपि महत्त्वपूर्णं स्थानं दत्तम् अस्ति तथा सर्वेषु क्षेत्रेषु ताः अग्रणी भूमिका निर्वहन्ति। सः विपक्ष-दलान् आलोचयन् अवदत् यत् तैः महिला-आरक्षण-विधेयकं दीर्घकालं यावत् बाधितम् अस्ति, किन्तु देशस्य पुत्र्य: अधुना तेषां कूटनीतिं सम्यक् ज्ञातवत्यः।
अन्ते सः काशी-नगरे प्रचलित-विकास-परियोजनानां उल्लेखं कृत्वा अवदत् यत् काश्याः विकास-चक्रं निरन्तरं गतिमानं अस्ति। अस्मिन् कार्यक्रमे राज्यपालः, मुख्यमन्त्रीः, अन्ये च वरिष्ठ-नेतारः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता