Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २८ अप्रैलमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी एकं सुभाषितं लिखित्वा आत्मसंयमः, कौशलम्, धैर्यम् तथा समीचीन-विचारपूर्वकं कृतः कार्यारम्भः प्रगतेः मूलभूत-कारणानि इति अवबोधितवान्।
प्रधानमन्त्री मङ्गलवासरे ‘एक्स’ इति माध्यमे लिखितवान्— “संयमेन सह कृतः परिश्रमः अद्भुतां सफलतां दातुं शक्नोति। एतेन राष्ट्रस्य समृद्धौ शक्तौ च नूतना ऊर्जा सञ्चरति।”
तेन संस्कृत-सुभाषितमपि उद्धृतम्—
क्रोधः संयमो दाक्ष्यमप्रमदो धृतिः स्मृतिः।समीक्ष्य च समारम्भो विद्धि मूलं भवस्य तु॥
अस्यार्थः— प्रयत्नः, आत्मसंयमः, कौशलम्, सतर्कता, धैर्यम्, स्मृतिः तथा कस्यापि कार्यस्य विचारपूर्वकः आरम्भः— एते सर्वे प्रगतेः मूलभूत-कारणानि सन्ति।
हिन्दुस्थान समाचार / ANSHU GUPTA