Enter your Email Address to subscribe to our newsletters

वाराणसी, 28 अप्रैलमासः(हि. स.)। नरेन्द्र मोदिना अनेकविकासकार्यैः सह सुपर-स्पेशलिटी चिकित्सालयस्य तथा सिग्नेचर सेतोश्च शिलान्यासः कृतः।
गङ्गानद्याः उपरि निर्मीयमानः अयं भारतस्य अतीव विस्तीर्णः आधुनिकश्च द्विस्तरीयः सिग्नेचर सेतुः भविष्यति। पञ्चशत-शय्यायुक्तस्य अस्य सुपर-स्पेशलिटी चिकित्सालयस्य निर्माणे ३१५ कोटिरूप्यकाणां व्ययः अपेक्षितः।
मङ्गलवासरे वाराणस्यां बनारस रेल-इञ्जिन-कारखाना-परिसरे आयोजिते महिला-सम्मेलने प्रधानमन्त्रिणा अनेकविकासकार्याणां सह अस्य चिकित्सालयस्य तथा सेतोष्च शिलान्यासः कृतः। अनेन सह वाराणसी-संसदीय-क्षेत्रे जनानां उत्तम-स्वास्थ्यसुविधायाः आवश्यकता अपि पूरिता।
प्रधानमन्त्रिणा वाराणस्यां गङ्गानद्याः उपरि निर्मीयमानस्य भारतस्य अत्यन्त-विस्तीर्णस्य आधुनिक-द्विस्तरीय-सिग्नेचर-सेतोः अपि शिलान्यासः कृतः। अस्य सेतोः निर्माणे लगभग २५००–२६०० कोटिरूप्यकाणां व्ययः भविष्यति।
अस्य सेतोः निर्माणानन्तरं राजघाटतः पड़ावपर्यन्तं यः प्राचीनः मालवीय-सेतुः अस्ति, तस्मात् भारः न्यूनः भविष्यति। अयं सिग्नेचर सेतुः वाराणस्याः नमो-घाटात् पड़ावपर्यन्तं निर्मीयते, येन वाराणसी-जनपदः चन्दौली-जनपदेन बिहार-राज्येन च सुगमतया संयोज्यते।
अस्य सेतोः विशेषता अस्ति यत् अयं १०७४ मीटर-दीर्घः विशालः द्विस्तरीयः सेतुः भविष्यति। अस्य उपरि भागे षट्-लेन-मार्गः, अधः चत्वारः रेल-पथाः भविष्यन्ति। सेतोः एकस्मिन् छोरि डमरू-आकृतिः दृश्यते।
अस्य निर्माणानन्तरं वाणिज्य-कार्येषु यातायात-सुविधा अपि अत्यन्तं सुलभा भविष्यति।
---------------
हिन्दुस्थान समाचार