Enter your Email Address to subscribe to our newsletters

गंगटोकम्, 28 अप्रैलमासः (हि.स.)। मुख्यमन्त्री प्रेमसिंहतमाङ्गः उक्तवान् यत् प्रधानमन्त्रिणो नरेन्द्रमोदिनो मार्गदर्शकमन्त्रः “सबका साथ, सबका विकास, सबका विश्वास” अद्य समावेशिविकासस्य सशक्तीकरणस्य च प्रभावी साधनं जातम् अस्ति, यस्मिन् विकासधारा अन्तिमपुरुषपर्यन्तं प्राप्नोति।
मुख्यमन्त्री मङ्गलवासरे राजधानीस्थे पाल्जोरस्टेडियम् इत्यत्र आयोजितस्य सिक्किमराज्यस्थापनायाः स्वर्णजयन्तीसमारोहस्य समापनसमारोहे संबोधनं कुर्वन् आसीत्। अस्मिन् कार्यक्रमे प्रधानमन्त्री नरेन्द्रमोदी मुख्यातिथिरूपेण सहभागी अभवत्।
मुख्यमन्त्री तमाङ्गः स्वस्वागतभाषणे सिक्किमजनताया: पक्षतः प्रधानमन्त्रिणो मोदिनः स्वागतं कृत्वा राज्यस्थापनायाः स्वर्णजयन्तीसमापनसमारोहे सहभागितायै तस्य आभारं व्यक्तवान्। सः उक्तवान् यत् भवान् अथकऊर्जया अटूटसंकल्पेन च राष्ट्रसेवां निरन्तरं करोति, यत् एकस्य सत्यकर्मयोगिनः भावनां द्योतयति।
सः अपि उक्तवान् यत् प्रधानमन्त्री मोदी इत्यस्य दूरदर्शिनः नेतृत्वस्य अधुना भारतम् गर्वेण पूर्णविश्वासेन च वैश्विकमञ्चे स्थितम् अस्ति। “नारीशक्तिवन्दनाअधिनियम” इत्यस्य उल्लेखं कृत्वा मुख्यमन्त्री उक्तवान् यत् एषः राष्ट्रनिर्माणे महिलानां समानसहभागितां सुनिश्चितीकर्तुं दृढः घोषः अस्ति। सिक्किमस्य जनाः अस्य प्रतिबद्धतां प्रशंसन्ति सम्मानयन्ति च तथा प्रधानमन्त्रीणः अस्य दृष्टिकोणस्य समर्थनं कुर्वन्ति।
मुख्यमन्त्री तमाङ्गः “प्राइड ऑफ द हिल्स” तथा “बौद्धसर्किट” इत्येतयोः पहलयोः प्रशंसां कृत्वा तयोः मध्ये सिक्किमस्य समावेशनाय आभारं व्यक्तवान्। अपि च सः प्रतिज्ञां कृतवान् यत् सिक्किम् 2047 पर्यन्तं विकसितभारतप्राप्तौ सार्थकं योगदानं दास्यति।
उल्लेखनीयम् अस्ति यत् प्रधानमन्त्री नरेन्द्रमोदी द्विदिवसीययात्रायां गतदिने (27 अप्रैल) सिक्किमम् आगतः।
-----------------
हिन्दुस्थान समाचार