Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २८ अप्रैलमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी गङ्गटोक-नगरे सिक्किम-राज्यस्य ५०तम-स्थापनावर्ष-समापन-समारोहे पर्यटनं विकासेन सह सम्बद्धम् इति प्रतिपादितवान्। सः उक्तवान् यत् केन्द्र-सर्वकारः सम्पर्क-अवसंरचनायाः विकासाय प्राथमिकतां ददाति तथा ‘अष्ट-लक्ष्मी’ इति पूर्वोत्तर-प्रदेशान् निर्दिश्य ‘एक्ट-ईस्ट्, एक्ट-फास्ट’ नीतिं अपि उल्लिखितवान्।
प्रधानमन्त्रिणा उक्तिः यत् सिक्किम-प्रदेशः ‘पूर्वस्य स्वर्गः’ तथा ‘पूर्वोत्तरस्य उद्यानम्’ अस्ति। अत्र समृद्धा पुष्प-प्रजातयः, बहवः पक्षिणः तथा विविधानि चित्रपतङ्ग-प्रकाराः सन्ति, ये राज्यस्य वैशिष्ट्यं वर्धयन्ति।
तेन देशवासिनः प्रति आह्वानं कृतं यत् ते सिक्किमं गच्छन्तु, स्थानीय-उत्पादान् क्रीणन्तु, तथा स्व-यात्रा-व्ययस्य किञ्चित् भागं स्थानीय-अर्थव्यवस्थायै समर्पयन्तु।अस्मिन् अवसरे प्रधानमन्त्री ४,००० कोटि-रूप्यकाधिक-मूल्यानां विविध-विकास-परियोजनानां लोकार्पणं शिलान्यासं च कृतवान्। एताः परियोजनाः सम्पर्क-स्वास्थ्य-शिक्षा-पर्यटनम्-पर्यावरण-संरक्षणम् इत्यादिषु क्षेत्रेषु राज्यस्य समग्र-विकासाय सहायक्यः भविष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता