पश्चिम एशिया के संकट का शांतिपूर्ण समाधान संयुक्त राष्ट्र की जिम्मेदारी: महासभा अध्यक्ष
नवदेहली, 28 अप्रैलमासः (हि.स.)।संयुक्तराष्ट्र-महासभायाः अध्यक्षा अन्नालेना बेयरबॉक महोदया पश्चिम-एशियायां सैन्यसङ्घर्षं तथा ''होर्मुज'' जलडमरूमध्यस्य अवरोधं च वीक्ष्य गभीरां चिन्तां प्रकटितवती। सा अवदत् यत् अस्मात् कारणात् विश्वे तैलस्य उर्वरकस्य
संयुक्त राष्ट्र महासभा अध्यक्ष अन्नालेना बेयरबॉक


नवदेहली, 28 अप्रैलमासः (हि.स.)।संयुक्तराष्ट्र-महासभायाः अध्यक्षा अन्नालेना बेयरबॉक महोदया पश्चिम-एशियायां सैन्यसङ्घर्षं तथा 'होर्मुज' जलडमरूमध्यस्य अवरोधं च वीक्ष्य गभीरां चिन्तां प्रकटितवती। सा अवदत् यत् अस्मात् कारणात् विश्वे तैलस्य उर्वरकस्य च मूल्येषु वृद्धिः अभवत्, गाजा-लेबनानयोः मानवीया स्थितिः च शोचनीया वर्तते। अस्याः समस्यायाः केवलं युद्धविरामः न, अपितु अन्ताराष्ट्रिय-नियमस्य अनुसारेण शान्तिपूर्णं समाधानं प्राप्तुं संयुक्तराष्ट्रसङ्घस्य सर्वोच्चं दायित्वं वर्तते।

​भारतप्रवासे आगता महासभाध्यक्षा अत्र 'हैदराबाद हाउस' मध्ये विदेशमन्त्रिणा डा. एस्. जयशङ्करेण सह मिलितवती, ततः परं संयुक्तराष्ट्र-कार्यालये पत्रकार-गोष्ठीं सम्बोधितवती।

​सङ्घर्षसमाधानाय प्रतिबद्धता आवश्यकी

​पश्चिम-एशियायाः स्थितिं प्रति सा अवदत् यत् शान्तिस्थापनं केवलं चर्चया न, अपितु युद्धविराम-वार्तानां अनुभवेन सर्वराष्ट्राणां समानता-सम्प्रभुतायोः प्रति प्रतिबद्धतया च सम्भवम् अस्ति। सा शान्तिसैनिकेषु अभवत् आक्रमणानां तीक्ष्णां निन्दां कृतवती।

​सुरक्षापरिषदि सुधारः विश्वसनीयतायाः प्रश्नः

​सुरक्षापरिषदि सुधारं प्रति १७ वर्षेभ्यः प्रचलन्तीं चर्चां लक्षीकृत्य बेयरबॉक महोदया पञ्च-स्थायि-सदस्यराष्ट्रेषु (P-5) संयुक्तराष्ट्र-चार्टरस्य दुर्बलीकरणस्य आरोपं कृतवती। सा अवदत् यत् 'अफ्रीकी सङ्घ' सदृशाणां महाद्वीपानां स्थायि-सदस्यरूपेण प्रतिनिधित्वस्य अभावः संयुक्तराष्ट्रसङ्घस्य विश्वसनीयतायाः विषयः अस्ति। सा विदेशमन्त्रिणा सह बहुपक्षीयसहयोगस्य, जलवायुपरिवर्तनस्य, महामारीणां च आव्हानानां विषये विचारविनिमयं कृतवती।

​शान्ति-भवनस्य निर्माणस्य उद्देश्यम्

​सा अवदत् यत्, संयुक्तराष्ट्रसङ्घस्य निर्माणं मानवतां स्वर्गे नेतुं न, अपितु तां नरकात् रक्षितुं कृतम् आसीत्। होर्मुज-जलसन्धेः अवरोधेन विश्वे ऊर्जा-आपत्कालस्य स्थितिः उत्पन्ना अस्ति। तैल-उर्वरकयोः मूल्यवृद्ध्या विश्वस्य अर्थव्यवस्था प्रभाविता वर्तते।

​भारतस्य नेतृत्वस्य प्रशंसा

​महासभायाः ८० तमस्य सत्रस्य अध्यक्षा बेयरबॉक महोदया भारतं 'विश्वस्य विशालतमं लोकतन्त्रम्' इति सम्बोधयन्ती अवदत् यत् बहुपक्षीयतायाः कृते भारतस्य नेतृत्वं साझेदारी च अतीव महत्त्वपूर्णा अस्ति। सा संयुक्तराष्ट्रसङ्घस्य इतिहासे भारतस्य योगदानं स्मरन्ती अवदत् यत्:

- ​१८४ तः अधिकाः भारतीय-शान्तिसैनिकाः वैश्विकशान्त्यै स्वबलिदानं दत्तवन्तः।

- ​सततविकासलक्ष्याणां प्राप्तौ भारतम् अग्रणी अस्ति।

- ​भारतीयनेत्री डा. हंसा मेहता १९४८ तमे वर्षे मानवाधिकार-घोषणापत्रे 'सर्वे पुरुषाः' इत्यस्य स्थाने 'सर्वे मानवाः' इति शब्दस्य प्रयोगं सुनिश्चितं कृतवती।

- ​अन्ते सा अवदत् यत् अन्ताराष्ट्रिय-नियमस्य पालनं तथा सर्वेषां देशानां सम्प्रभुतायाः आदरः एव वर्तमानसङ्कटस्य एकमेव समाधानं वर्तते।

-----------

हिन्दुस्थान समाचार / अंशु गुप्ता