Enter your Email Address to subscribe to our newsletters


वाराणसी-नगरम्, २८ अप्रैलमासः (हि.स.)। प्रधानमन्त्री-नरेन्द्रमोदी-महाभागेन स्वीय-सांसदीय-क्षेत्राय वाराणसी-नगराय षट्सहस्र-त्रिशत-त्रिंशत्-द्वि-कोटि-रूप्यक-परिमितानां १६३ विकास-परियोजनानां महान् उपहार: दत्त:।
प्रधानमन्त्रीने बरेका-इण्टर-कॉलेज-प्रांगणे आयोजिते जनसभायां रिमोट-यन्त्र-माध्यमेन १६३ परियोजनानां लोकार्पणं शिलान्यासं च कृतम्। एतेषु १०५४.६९-कोटि-रूप्यक-परिमितानां ५० परियोजनानां लोकार्पणं तथा ५२७७.३९-कोटि-रूप्यक-परिमितानां ११३ परियोजनानां शिलान्यासः समाविष्टः अस्ति।
अस्मिन् कार्यक्रमे ‘जनआक्रोश-महिला-सम्मेलने’ बहुसंख्यया महिलाः सहभागं कृतवत्यः। विशेषतया महिलाभिः न केवलं जनसभायां सक्रिय-भूमिका निर्वहिता, अपितु प्रधानमन्त्रीसुरक्षा-व्यवस्थायाम् अपि महत्त्वपूर्णं योगदानं दत्तम्। प्रधानमन्त्री जीप-वाहनेन सभास्थलं प्राप्तवान् तथा मातृशक्तिम् अभिवाद्य तासां स्नेहं स्वीकृतवान्।
प्रधानमन्त्री मोदी उक्तवान् यत् विकसित-भारत-निर्माणे नारीशक्तेः भूमिका अत्यन्तं महत्त्वपूर्णा अस्ति। तेन काशी-पुणे तथा अयोध्या-मुम्बई मार्गयोः द्वयोः अमृत-भारत-एक्सप्रेस-रेलयानयोः शुभारम्भः अपि कृतः, येन यात्रायाः सुविधा अधिका भविष्यति।
अस्मिन् अवसरे मुख्यमन्त्री योगी-आदित्यनाथः प्रधानमन्त्रीस्य स्वागतं कृतवान्। राज्यपालः आनन्दीबेन-पटेलः, भाजपा-राष्ट्रीय-अध्यक्षः नितिन-नवीनः, उपमुख्यमन्त्रिणौ केशव-प्रसाद-मौर्यः ब्रजेश-पाठकः च अन्ये च अनेके मन्त्री-जनप्रतिनिधयः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता