Enter your Email Address to subscribe to our newsletters

गङ्गटोक-नगरम्, २८ अप्रैलमासः (हि.स.)। भारतस्य प्रधानमन्त्री नरेन्द्रमोदी-महाभागः सिक्किम-राज्यस्य स्वीय-द्विदिनात्मक-यात्रायाः द्वितीय-अन्तिम-दिने प्रातःकाले फुटबॉल-क्रीडया स्व-दिनस्य आरम्भं कृतवान्। सः ‘फेसबुक’-माध्यमे मङ्गलवासर-प्रातः राजधानी-नगरे युवकैः सह फुटबॉल-क्रीडां कुर्वन् स्वस्य एकं चित्रं स्थापितवान्।
प्रधानमन्त्रिणा लिखितम्— “सिक्किम-राज्ये गङ्गटोक-नगरे एषा रमणीया प्रातःकालीन-वेला, स्वैः युवा-मित्रैः सह फुटबॉल-क्रीडायाः आनन्दः अत्यन्तं विशिष्टः अस्ति।” चित्रेषु प्रधानमन्त्री नरेन्द्रमोदी-महाभागः युवकैः सह फुटबॉल-क्रीडां कुर्वन् दृश्यते।
उल्लेखनीयम् यत् प्रधानमन्त्री नरेन्द्रमोदी-महाभागः द्विदिनात्मक-यात्रायाम् गतदिने सिक्किम-राज्यम् आगतः। सः अद्य पाल्जोर-स्टेडियम् इत्यत्र राज्यस्य स्थापना-पञ्चाशत्-वर्ष-पूर्तेः समापन-समारोहे सहभागं करिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता