प्रधानमंत्रिणो मोदिनः सिक्किमे अद्य अंतिमं दिनं, राज्य स्थापनायाः 50तमायाः वर्षिक्याःसमापन समारोहं ग्रहीष्यति भागम्
गंगटोकम्,28 अप्रैलमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य राजधानी गङ्गटोक-नगरे स्वर्णजयंती-मैत्री-मञ्जरी-उद्याने स्थितस्य आर्केडेरियम् इति स्थले भ्रमणं करिष्यति। अनन्तरं सः पाल्जोर-स्टेडियम् इत्यत्र सिक्किम-राज्यस्य स्थापना-पञ्चाशद्वर्षपूर्ते
modi


गंगटोकम्,28 अप्रैलमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य राजधानी गङ्गटोक-नगरे स्वर्णजयंती-मैत्री-मञ्जरी-उद्याने स्थितस्य आर्केडेरियम् इति स्थले भ्रमणं करिष्यति। अनन्तरं सः पाल्जोर-स्टेडियम् इत्यत्र सिक्किम-राज्यस्य स्थापना-पञ्चाशद्वर्षपूर्तेः समापन-समारोहे सहभागं करिष्यति।

प्रधानमन्त्री नरेन्द्रमोदी द्विदिवसीय-पर्यटनार्थं सोमवासरे सिक्किम-राज्यं प्राप्तवान्। ह्यः प्रधानमन्त्री देवराली-स्थित-गञ्जू-लामा-द्वारात् लोक-भवन-पर्यन्तं मार्ग-प्रदर्शनम् (रोड-शो) अकरोत्। अस्मिन् अवसरे राज्यस्य सर्वतः जनाः आगत्य प्रधानमन्त्री-मोदिनः उष्णतया भव्यं स्वागतं कृतवन्तः। प्रधानमन्त्री राष्ट्रिय-राजमार्गे दशसंख्यके (१०) पङ्क्तिबद्धान् जनान् प्रति हस्तं सञ्चालयन् अभिवादनं कृतवान्।

प्रधानमन्त्री स्वस्य सिक्किम-यात्रायाः द्वितीयं च अन्तिमं च दिनं अद्य प्रातः गङ्गटोक-राजधानी-स्थिते स्वर्णजयंती-मैत्री-मञ्जरी-उद्याने आर्केडेरियम् इत्यस्य दर्शनम् आरभते। प्रधानमन्त्री मोदिना गतवर्षे मये मासि सिक्किम-राज्यस्य स्थापना-पञ्चाशद्वर्षपूर्तेः निमित्तं अस्य उद्यानस्य उद्घाटनं कृतम्।

तदा प्रतिकूल-जलवायोः कारणात् सः सिक्किम-राज्यं न आगच्छत्। सः पश्चिमबङ्गाल-राज्ये बागडोगरा-विमानस्थानं यावत् आगतः आसीत्। तेन बागडोगरात् आभासी-रीत्या (आभासिकरूपेण) उद्यानस्य उद्घाटनं कृतम्। अस्मिन् समये सः राज्य-स्थापना-पञ्चाशद्वर्षपूर्तेः समापन-समारोहस्य अवसरे उद्यानस्य प्रत्यक्षं भ्रमणं करिष्यति।

अनन्तरं प्रधानमन्त्री राजधानी-स्थिते पाल्जोर-स्टेडियम् इत्यत्र राज्य-स्थापना-पञ्चाशद्वर्षपूर्तेः समापन-समारोहे सहभागं करिष्यति। प्रधानमन्त्री अस्मिन् कार्यक्रमे भाषणं दास्यति तथा च चत्वारि सहस्र-कोटि-रूप्यकाधिक-मूल्यस्य विभिन्न-परियोजनानां उद्घाटनं आधारशिला-स्थापनं च करिष्यति।

अस्मात् स्थानात् सः स्वस्य संसदीय-क्षेत्रं वाराणसी-नगरं (उत्तरप्रदेश-राज्ये) प्रति प्रस्थितः भविष्यति, यत्र सः विशाल-महिला-सम्मेलने सहभागं करिष्यति।

हिन्दुस्थान समाचार