गौवंश संरक्षणाय जनमानसाय आह्वानं, तृणदानं कृत्वा गौ संरक्षणे करणीयः सहयोगः
प्रयागराजः, 29 अप्रैलमासः (हि.स.)।निराश्रित-अस्थायी-गो-आश्रय-स्थलेषु पाल्यमानानां गोवंशानां भरण-पोषणार्थं प्रशासनं जनमानसात् सहयोगं याचते। अस्मिन् पुण्यकार्ये भूसा-दानं कृत्वा सहकार्यं दातव्यमिति उक्तम्। एषा अपील अद्य बुधवासरे प्रयागराज-नगरस्य मुख्
प्रयागराज के मुख्य पशु चिकित्साधिकारी डॉ शिवनाथ यादव


प्रयागराजः, 29 अप्रैलमासः (हि.स.)।निराश्रित-अस्थायी-गो-आश्रय-स्थलेषु पाल्यमानानां गोवंशानां भरण-पोषणार्थं प्रशासनं जनमानसात् सहयोगं याचते। अस्मिन् पुण्यकार्ये भूसा-दानं कृत्वा सहकार्यं दातव्यमिति उक्तम्। एषा अपील अद्य बुधवासरे प्रयागराज-नगरस्य मुख्य-पशु-चिकित्साधिकारी शिवनाथ यादवेन कृता।

तेन प्रयागराज-नगरस्य गो-सेवा-प्रेमिभ्यः, जनपदस्य व्यापारीभ्यः, महत्भ्यः कृषकभ्यः, पुलिस-प्रशासनिक-अधिकारिभ्यः च अस्मिन् पुण्यकार्ये सहयोगः कर्तव्य इति आवेदितम्। तेन उक्तं यत् मुख्यमन्त्रिणः अभिनव-छत्रछाया-योजना-अन्तर्गतं प्रदेशे सञ्चालितेषु अस्थायी-निराश्रित-गोवंश-आश्रय-स्थलेषु व्यवस्थापनं क्रियते। वर्तमानकाले प्रयागराज-जनपदे १२१ गो-आश्रय-स्थलेषु प्रायः २०,००० परित्यक्त-निराश्रित-गोवंशाः संरक्षिताः सन्ति।

मुख्य-पशु-चिकित्साधिकारी उक्तवान् यत् यदि जनपदस्य सर्वे गो-सेवा-प्रेमिणः, व्यापारीजनाः, सामाजिक-संगठनानि च स्व-स्व-क्षेत्रेषु सञ्चालितासु गोशालासु गत्वा प्रति-व्यक्ति १०० क्विण्टल-परिमितं वा १०० गोवंशानां कृते १०० क्विण्टल-भूसा दानं कुर्वन्ति, तर्हि आश्रय-स्थलानां सञ्चालनं अधिकं सुदृढं भविष्यति।

तेन उक्तं यत् ये व्यक्तयः, संस्थाः वा गणमान्य-नागरिकाः भूसा-दानं करिष्यन्ति, ते सम्मानिताः अपि भविष्यन्ति, तेषां नामानि च प्रचारितानि भविष्यन्ति। प्रशासनं पुनःआह्वानं करोति यत् अधिकाधिकाः जनाः अग्रे आगत्य गो-सेवाया अस्य अभियाने सहभागीभवन्तु, येन जनपदस्य सर्वेषु गो-आश्रय-स्थलेषु पर्याप्त-चारा-व्यवस्था सुनिश्चिता भवेत्।

---------------

हिन्दुस्थान समाचार