Enter your Email Address to subscribe to our newsletters





लेह, 29 अप्रैलमासः (हि.स.)। महात्मनः बुद्धस्य पवित्रावशेषाः जनसामान्यानां दर्शनाय भारतीयवायुसेनायाः विशेषविमानेन बुधवासरे प्रातः राष्ट्रियराजधान्याः नवदिल्ल्याः लद्दाखस्य राजधान्यां लेह-नगरं सम्प्राप्ताः। कठाेरसुरक्षायाः मध्ये आगतेभ्यः एतेभ्यः अवशेषेभ्यः 'हेड ऑफ स्टेट्' (राष्ट्राध्यक्षः) इति गौरवास्पदं पदं दत्तम् अस्ति। लेह-नगरस्य तकनीकी-विमानपत्तने पारम्परिक-बौद्धरीतिपरम्पराद्वारा स्वागतं कृत्वा एते अवशेषाः चोगलमसर-स्थिते जेवेत्सल क्षेत्रं नीताः। लद्दाख-क्षेत्रे १ मईतः १५ मईपर्यन्तं सामान्यजनानां दर्शनाय एते अवशेषाः स्थापयिष्यन्ते। बुद्धपूर्णिमाप्रसङ्गे आयोजिते विशेषकार्यक्रमे केन्द्रीयगृहमन्त्री अमितशाहः सम्मिलितः भविष्यति। अस्मिन् अवसरे देशस्य विभिन्नराज्यानां मुख्यमन्त्रिणः, अनेकेषां देशानां राजदूताः उच्चायुक्ताश्च अपि लेह-नगरं प्राप्स्यन्ति।
लेह-नगरस्य तकनीकी-विमानपत्तने बुधवासरे विभिन्नमठानां धर्मगुरवः, बौद्धभिक्षवः प्रशासनीयाधिकारिणश्च मन्त्रोच्चारणैः सह पवित्रावशेषाणां स्वागतं कृतवन्तः। विमानात् अवतारणानन्तरं विधिवत् पूजा-अर्चना कृता, ततः परं एते जेवेत्सल नीताः। विमानपत्तनात् जेवेत्सल यावत् प्रायः १० किलोमीटर परिमिते मार्गे सहस्रशः श्रद्धालवः मार्गस्य उभयतः पुष्पमालाभिः सह दर्शनार्थं उपस्थिताः आसन्। सम्पूर्णः मार्गः पारम्परिकरीत्या अलङ्कृतः आसीत्, अनेकेषु स्थानेषु पुष्पवृष्ट्या स्वागतं कृतम्।
लद्दाखस्य उपराज्यपालः विनयकुमारसक्सेना महोदयः अवदत् यत् अयम् एकः ऐतिहासिकः क्षणः अस्ति, विशेषतः बौद्धधर्मस्य अनुयायिनः लद्दाखस्य जनाश्च अस्य दिनस्य बहुवर्षेभ्यः प्रतीक्षां कुर्वन्ति स्म।
जेवेत्सल-क्षेत्रे भविष्यति पवित्रावशेषाणां प्रदर्शिनी
राजधान्यां लेह-नगरे चोगलमसर-स्थिते जेवेत्सल-क्षेत्रे पवित्रावशेषाः विशेषसुरक्षायां स्थापिताः सन्ति। अत्र १ मईतः १५ मईपर्यन्तं जनसामान्याय दर्शनव्यवस्था कृता अस्ति। अस्मिन् अवसरे देश-विदेशेभ्यः विशालायां संख्यायां श्रद्धालूनां पर्यटकानां च आगमनानुमानं वीक्ष्य प्रशासनेन व्यापिकाः सज्जाः कृताः सन्ति।
प्रदर्शनीस्थले बहुस्तरीया सुरक्षाव्यवस्था वर्तते, यस्यां लद्दाख-आरक्षकबलं, केन्द्रीय-अर्धसैनिकबलं तथा गुप्तचरसंस्थाः नियुक्ताः सन्ति। सम्पूर्णक्षेत्रे 'सीसीटीवी' तथा द्रोणयन्त्रैः निरीक्षणं क्रियते। यातायातप्रबन्धनाय विशेषः मार्गनक्शा सज्जीकृतः अस्ति, येन जनसम्मर्दस्य समस्या नियन्त्रितुं शक्येत।
श्रद्धालूनां सौविध्याय चिकित्साशिबिराणि, रुग्णवाहिकाः, पेयलम्, अस्थायी-शौचालयाः, सार्वजनिकपरिवहनव्यवस्था च कृता अस्ति। आयोजनस्थले एकीकृतं नियन्त्रण-कमान्ड-केन्द्रं स्थापितं, यतः सुरक्षायाः यातायातस्य च वास्तविकसमये निरीक्षणं क्रियते।
बुद्धपूर्णिमायां विशेषायोजनम्
१ मई दिनाङ्के बुद्धपूर्णिमा-अवसरे जेवेत्सल-क्षेत्रे विशेषधार्मिककार्यक्रमाः आयोजयिष्यन्ते। अस्मिन् अन्तरे विविधानां बौद्धपरम्पराणाम् अनुसारेण प्रार्थना, ध्यानं अनुष्ठानानि च भविष्यन्ति।
अस्मिन् अवसरे सास्कृतिककार्यक्रमाः अपि आयोजयिष्यन्ते, येषु लद्दाखस्य पारम्परिककला-सङ्गीतयोः प्रस्तुतिः भविष्यति। कार्यक्रमं प्रति प्रशासनेन विशेषः 'प्रोटोकॉल' सज्जीकृतः, श्रद्धालूनां गमनागमनं च चरणबद्धरीत्या सञ्चालयितुं योजना निर्मिता अस्ति।
गृहमन्त्री अमित शाहः अपि लेहं प्राप्स्यति
केन्द्रीयगृहमन्त्री अमितशाहः ३० अप्रैलदिनाङ्के द्विदिवसीयप्रवासे लद्दाखं प्राप्स्यति। सः १ मई दिनाङ्के बुद्धपूर्णिमाप्रसङ्गे जेवेत्सल-क्षेत्रे आयोजिते विशेषकार्यक्रमे भागं ग्रहीष्यति।
अन्ताराष्ट्रिय-सहभागिता
अस्मिन् आयोजने अनेकेषां बौद्धदेशानां राजदूतानां प्रतिनिधीनां च सम्मेलनस्य सम्भावना वर्तते। एतदतिरिच्य अन्ताराष्ट्रिय-बौद्धसङ्घटनानां प्रतिनिधयः अपि अस्मिन् समये लेह-नगरं प्राप्नुवन्ति।
मई-मासस्य प्रथमे पक्षे पर्यटकानां श्रद्धालूनां च वर्धमानां संख्यां दृष्ट्वा उपाहारगृहाणि, अतिथिगृहाणि परिवहनसेवासु च सक्रियता वर्धिता। प्रशासनेन जनसम्मर्द-प्रबन्धनाय चरणबद्ध-प्रवेश-व्यवस्था प्रवर्तिता अस्ति।
लेह-नगरे व्यापिकाः सज्जाः
लेह-नगरं आयोजनं ध्यात्वा विशेषरूपेण अलङ्कृतम् अस्ति। मार्गेषु, चतुष्पथेसु, सार्वजनिकस्थलेषु च सहस्रशः पादपकुम्भाः स्थापिताः। प्रमुखाः भवनानि पर्यटनस्थलानि च प्रकाशेन सज्जितानि सन्ति।
'लेह पैलेस्' सहितं अन्यस्थानेषु 'लाइट एण्ड साउण्ड' इति कार्यक्रमाणां व्यवस्था कृता। स्थानीयकलाकाराः पारम्परिकवेषभूषासु सांस्कृतिकप्रस्तुतीः कुर्वन्ति, येन सम्पूर्णनगरे उत्सवमयवातावरणं निर्मितम् अस्ति।
जांस्कर-क्षेत्रे अपि प्रदर्शिनी
पवित्रावशेषाणां प्रदर्शनं जांस्कर-क्षेत्रे अपि भविष्यति। ११ तथा १२ मई दिनाङ्कयोः तत्र श्रद्धालूनां कृते दर्शनव्यवस्था भविष्यति। एतदर्थं पृथक् तार्किक-सुरक्षा-प्रबन्धाः कृताः, येन दूरस्थक्षेत्राणां जनाः अपि दर्शनस्य अवसरं प्राप्तुं शक्नुयुः।
पिपरहवा-स्तूपतः प्राप्त-अवशेषाणां शोधः
एते पवित्रावशेषाः उत्तरप्रदेशस्य सिद्धार्थनगर-जनपदस्य पिपरहवा-स्तूपेन सम्बद्धाः सन्ति। १८९८ तमे वर्षे ब्रिटिश-शासने अत्र उत्खनने एकस्मिन् शिलापात्रे बुद्धसम्बद्धाः अवशेषाः, रत्नानि अन्याः सामग्र्यश्च प्राप्ताः आसन्। एषा शोधः बौद्ध-इतिहासस्य महत्त्वपूर्णा उपलब्धिः मन्यते। अनन्तरं १९७१ तः १९७७ मध्ये भारतीयपुरातत्वसर्वेक्षणविभागेन कृतोत्खनने अपि बहवः शैलपात्राणि अस्थि-अवशेषाश्च प्राप्ताः, येषां बुद्धसम्बद्धत्वं पुष्टं जातम्।
बौद्धपरम्परायाम् अवशेषाणां महत्त्वम्
बौद्धमान्यतानुसारं, भगवतः बुद्धस्य महापरिनिर्वाणानन्तरं तस्य अवशेषाः अष्टधा विभक्ताः आसन्। एते अवशेषाः विभिन्नगणराज्येषु वितरिताः स्तूपेषु च स्थापिताः। अनन्तरं सम्राट-अशोकेन एते अवशेषाः सङ्गृह्य सहस्रशः स्तूपानि निर्मितानि, येन बौद्धधर्मस्य व्यापकः प्रसारः अभवत् एते अवशेषाः च श्रद्धायाः प्रमुखकेन्द्राणि जातानि।
औपनिवेशिककाले विभाजनं संरक्षणं च
ब्रिटिश-शासने पिपरहवा-तः प्राप्त-अवशेषाणां कश्चन भागः विभिन्नसङ्ग्रहालयेषु प्रेषितः। केचन रत्न-अवशेषाः विदेशं अपि प्राप्ताः, यदा तु बहवः अवशेषाः भारते सुरक्षिताः स्थापिताः। राष्ट्रियसङ्ग्रहालयेन अन्यसंस्थाभिः च एतेषाम् अवशेषाणां संरक्षणं क्रियते समय-समये च एतेषां प्रदर्शनमपि भवति।
कुत्र-कुत्र प्रदर्शिताः एते अवशेषाः?
गतेषु कतिपयेषु वर्षेषु भगवतः बुद्धस्य एते पवित्रावशेषाः देशे विदेशे च अनेकेषु प्रमुखस्थानेषु प्रदर्शिताः। विदेशेषु एते अवशेषाः मङ्गोलिया, थाइल्याण्ड्, वियतनाम्, श्रीलङ्का तथा म्यानमार्-सदृशेषु बौद्धदेशेषु प्रदर्शिताः, यत्र विशालायां संख्यायां श्रद्धालवः दर्शनानि कृतवन्तः।
भारते अपि एते पवित्रावशेषाः राष्ट्रियसङ्ग्रहालये (नवदेहली), गुजरातस्य वडनगरे, मुम्बय्यां, पटनायां, राजगीरे, कोलकात्तायां, भुवनेश्वरे, अमरावत्यां तथा सारनाथे च प्रदर्शिताः सन्ति।
---------------
हिन्दुस्थान समाचार