मुख्यमंत्रिणः सायस्य अध्यक्षतायां मंत्रिपरिषदः उपवेशनमद्य
रायपुरम् 28 अप्रैलमासः (हि.स.)। विष्णु देव सायस्य अध्यक्षतायां छत्तीसगढ़-राज्यस्य मन्त्रिपरिषदः (कैबिनेट्) उपवेशनमद्य बुधवासरे आयोज्यते। एतत् उपवेशनम् पूर्वाह्णे ११:३० वादने महानदी-भवने, नवा-रायपुर-अटल-नगरे भविष्यति। अस्यां संगोष्ठ्यां राज्यसम्
मुख्यमंत्री साय मंत्रिपरिषद फाइल फाेटाे


रायपुरम् 28 अप्रैलमासः (हि.स.)।

विष्णु देव सायस्य अध्यक्षतायां छत्तीसगढ़-राज्यस्य मन्त्रिपरिषदः (कैबिनेट्) उपवेशनमद्य बुधवासरे आयोज्यते। एतत् उपवेशनम् पूर्वाह्णे ११:३० वादने महानदी-भवने, नवा-रायपुर-अटल-नगरे भविष्यति।

अस्यां संगोष्ठ्यां राज्यसम्बद्धानां महत्वपूर्ण-नीतिगत-विषयाणां, प्रशासनिक-निर्णयानां, विकास-कार्याणां च समीक्षा क्रियते, आवश्यक-प्रस्तावेषु च विचारः करिष्यते।

हिन्दुस्थान समाचार