चतुर्धाम-यात्रा - दश-दिनेषु चत्वारि-लक्षाधिकाः श्रद्धालवः दर्शनं कृतवन्तः
देहरादून-नगरम्, २९ अप्रैलमासः (हि.स.)। प्रदेशे चतुर्धाम-यात्रा सुचारुरूपेण प्रवर्तते। राज्य-सर्वकारेण यात्रिणां सुविधा-सुरक्षायोः कृते व्यापक-व्यवस्थाः सुनिश्चिताः सन्ति। कपाट-उद्घाटनात् आरभ्य २८ अप्रैल-२०२६ सायं ७ वादनपर्यन्तं केवलं दश-दिनेषु चत्व
श्री बद्रीनाथ धाम।


देहरादून-नगरम्, २९ अप्रैलमासः (हि.स.)। प्रदेशे चतुर्धाम-यात्रा सुचारुरूपेण प्रवर्तते। राज्य-सर्वकारेण यात्रिणां सुविधा-सुरक्षायोः कृते व्यापक-व्यवस्थाः सुनिश्चिताः सन्ति। कपाट-उद्घाटनात् आरभ्य २८ अप्रैल-२०२६ सायं ७ वादनपर्यन्तं केवलं दश-दिनेषु चत्वारि-लक्ष-आठ-सहस्र-चत्वारि-शत-एकः (४,०८,४०१) श्रद्धालवः चतुर्धामेषु दर्शनार्थं प्राप्तवन्तः इति आधिकारिक-सूत्रैः ज्ञापितम्।

चतुर्धाम-यात्रायां यात्रिणां, श्रद्धालूनां तथा स्थानीय-नागरिकाणां च काचित् अपि असुविधा न भवेत् इति उद्देश्येन यात्रा-मार्गेषु तथा प्रमुख-धार्मिक-पर्यटन-स्थलेषु पेयजल-व्यवस्था, शौचालय-व्यवस्था, स्वास्थ्य-सेवाः, स्वच्छता, पार्किङ्ग-व्यवस्था तथा यातायात-व्यवस्था च सुदृढीकृता एवं सुव्यवस्थिता कृता अस्ति। राज्य-सर्वकारेण भ्रामक-सूचना-प्रसारकाणां तथा स्वच्छतां बाधकानां विरुद्धं कठोर-कार्रवाह्या: निर्देशाः दत्ताः, येन यात्रा-पवित्रता तथा व्यवस्था संरक्षिता भवेत्।

राज्य-आपातकालीन-परिचालन-केन्द्रेण (देहरादून) प्रदत्त-सङ्ख्यायाः अनुसारं यमुनोत्री-धामे ५७,७९४, गंगोत्री-धामे ५७,८६३, केदारनाथ-धामे २,०७,४५२ तथा बदरीनाथ-धामे ८४,९४२ श्रद्धालवः दर्शनं कृतवन्तः। तदतिरिक्तं गौमुख-क्षेत्रं यावत् ४४० यात्रिणः प्राप्ताः। वर्तमान-यात्रा-ऋतौ अद्यावधि कुलं ६४,११५ वाहनानि यात्रिणः वहन्ति चतुर्धामं प्राप्तानि।

राज्य-सर्वकारेण सर्वेषां सम्बन्धित-विभागानां समन्वयेन यात्रां सुरक्षितां, सुगमां तथा सुव्यवस्थितां कर्तुं निर्देशाः दत्ताः सन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता