इतिहासस्य पृष्ठेषु ३० अप्रैलमासः : हिटलरस्य अन्तेन सह क्रूरस्य अध्यायस्य समाप्तिः
इतिहासे ३० अप्रैलमासः एकः महत्त्वपूर्णः इति रूपेण अंकितः अस्ति। अस्मिन्नेव दिने १९४५ वर्षे जर्मनीदेशस्य तानाशासकः अडोल्फ-हिटलरः द्वितीयविश्वयुद्धस्य अन्तिमेषु दिवसेषु आत्महत्यां कृतवान्। कथ्यते यत् यदा सोवियत-सेना बर्लिननगरं सर्वतः परितः आवेष्टयत्
8305a2098e957046c059d0eac5923fd5_1738599774.jpg


इतिहासे ३० अप्रैलमासः एकः महत्त्वपूर्णः इति रूपेण अंकितः अस्ति। अस्मिन्नेव दिने १९४५ वर्षे जर्मनीदेशस्य तानाशासकः अडोल्फ-हिटलरः द्वितीयविश्वयुद्धस्य अन्तिमेषु दिवसेषु आत्महत्यां कृतवान्।

कथ्यते यत् यदा सोवियत-सेना बर्लिननगरं सर्वतः परितः आवेष्टयत्, तदा हिटलरः स्वस्य भूमिगत-गुप्तगृहे (बंकर-मध्ये) आत्मनः शरीरं प्रति गुटिकां प्रक्षिप्य आत्महत्यां कृतवान्। तेन सह तस्य पत्नी इवा-ब्राउन-अपि आत्महत्यां कृतवती। सः बंकरः भूमेः प्रायः ५० पादपरिमिते गहने स्थितः आसीत्, यत्र हिटलरः स्वजीवनस्य अन्तिमदिवसान् अयापयत्।

द्वितीयविश्वयुद्धकाले हिटलरस्य नीतयः समग्रं विश्वं गम्भीरसङ्कटे अपातयन्। विशेषतः यहूदीजनानां विरुद्धं सञ्चालितं तस्य नरसंहार-अभियानं मानवइतिहासे अमिटं कृष्णं कलङ्कम् इव अवशिष्टम्।

हिटलरस्य मृत्युना सह नाजीशासनस्य अन्तः शीघ्रमेव समीपम् आगतः तथा यूरोपमहादेशे युद्धसमाप्तेः प्रक्रिया आरब्धा अभवत्। अयं दिवस: अद्यापि स्मारयति यत् सत्तायाः दुरुपयोगः तथा कट्टर-विचारधारा कथं समग्रं विश्वं विनाशमार्गे नेतुं शक्नोति।

महत्वपूर्णघटनाचक्रम्

१५९८ – अमेरिकादेशे प्रथमवारं नाट्यप्रदर्शनस्य आयोजनम्।१७८९ – जॉर्ज-वॉशिंगटनः सर्वसम्मत्या अमेरिकादेशस्य प्रथमः राष्ट्रपतिः निर्वाचितः।१९०८ – खुदीराम-बोसः प्रफुल्ल-चाकी च मुजफ्फरपुरे किंग्सफोर्ड-मजिस्ट्रेट-इत्यस्य वधाय विस्फोटकं प्रक्षिप्तवन्तौ, किन्तु द्वौ निर्दोषौ मृतौ।१९४५ – जर्मन-तानाशासकः हिटलरः पत्नी इवा-ब्राउन-सह आत्महत्यां कृतवान्।१९७३ – अमेरिकी-राष्ट्रपतिः रिचर्ड-निक्सनः वॉटरगेट-प्रकरणस्य उत्तरदायित्वं स्वीकृतवान्।१९७५ – वियतनामयुद्धस्य समाप्तिः।१९८५ – पर्वतारोहकः रिचर्ड “डिक” बासः ५५-वर्षीयः सन् एव सर्वोच्चवयस्कः एवरेस्टारोहणकर्त्ता अभवत्।१९९१ – बांग्लादेशे चक्रवातेन सवा-लक्षाधिकजनाः मृताः, नवमिलियनजनाः गृहहीनाः।१९९१ – अण्डमानद्वीपे सुप्तज्वालामुखेः विस्फोटः।१९९३ – टेनिसखेलायाः विश्वप्रथमाङ्किता मोनिका-सेलेशः आक्रमणेन आहतः अभवत्।१९९९ – पत्रकारः माइकल-इशिकॉफः सम्मानितः।१९९९ – कोमोरोस-द्वीपे सैन्येन सत्ता-ग्रहणम्।२००० – G-77 शिखरसम्मेलनं हवाना-नगरे सम्पन्नम्।२००१ – फिलीपीन्से तख्तापलट-प्रयासः।२००२ – पाकिस्ताने जनमतसंग्रहः।२००४ – इराकदेशे हिंसायां १० अमेरिकी सैनिकाः मृताः।२००५ – नेपालदेशे आपत्कालस्य समाप्तिः।२००६ – २०११ क्रिकेट-विश्वकपस्य आयोजनं भारतीय-उपमहादेशाय दत्तम्।२००७ – नेत्रहीन-विमानचालकः माइल्स-हिल्टनः विश्व-कीर्तिमानं स्थापितवान्।२००८ – उड़ीसादेशे चालकविहीन-विमानपरीक्षणं सफलम्।२०१० – देव-आनन्दः दादासाहेब-फाल्के-पुरस्कारेण सम्मानितः, प्राणः “फाल्के आइकॉन” इति सम्मानं प्राप्तवान्।२०१७ – नेपालस्य सर्वोच्चन्यायालयस्य प्रथममहिला-मुख्यन्यायाधीशे सुशीला-कार्की-इत्यस्य विरुद्धं महाभियोगप्रस्तावः।

जन्म

१८७० – दादासाहेब-फाल्के१८९६ – आनन्दमयी माता१९०९ – आर.शङ्करः (केरल-पूर्वमुख्यमन्त्री)१९२७ – फातिमा-बीबी (सर्वोच्चन्यायालय-न्यायाधीशा)१९४९ – एंटोनियो-गुटेरेस (संयुक्तराष्ट्रमहासचिवः)१९६६ – बीसेट्टी-वेंकट-सत्यवती१९६७ – मीनाक्षी-लेखी

निधनम्

१०३० – महमूद-गजनवी१८३७ – हरि-सिंह-नलवा२०११ – दोरजी-खांडू२०२० – ऋषि-कपूरः२०२० – चुनी-गोस्वामी२०२१ – रोहित-सर्दाना

हिन्दुस्थान समाचार / अंशु गुप्ता