Enter your Email Address to subscribe to our newsletters

हिसार-नगरम्, २९ अप्रैलमासः (हि.स.)। उकलाना-नगरपालिका-निर्वाचनस्य प्रभारी तथा मन्त्रिमण्डल-मन्त्री कृष्ण-बेदी उक्तवान् यत् जनसहयोगेन उकलाना-नगरपालिकायां कमलस्य विजयः सुनिश्चितः अस्ति। तेन उक्तं यत् काँग्रेस-दलम् अत्रतः रणभूमिं त्यक्त्वा पलायितम्।कृष्ण-बेदीः बुधवासरे उकलाना-नगर्यां निर्वाचन-प्रबन्धन-समित्याः सभां सम्बोधयन् आसीत्। अस्याः सभायाः अध्यक्षता जनपद-अध्यक्षा डॉ.आशा-खेदड़या कृता। मन्त्री कृष्ण-बेदी उक्तवान् यत् भारतीय-जनता-पक्ष: अद्य जनानां प्रिय: अभवत्। यत् किमपि निर्वाचनं भवति, जनसहयोगेन तत्र भाजपा एव विजयं प्राप्नोति। काँग्रेस-दलम् अत्र रणभूमिं त्यक्त्वा पलायितम्। काँग्रेस-दलस्य कार्यमेव पलायनम् अभवत्। सा विधानसभायामपि पलायते, अधुना च पालिका-निर्वाचने अपि पलायिता अस्ति। तेन निर्वाचनकार्येषु नियुक्तान् पदाधिकारिणः कार्यकर्तॄन् च आवश्यकाः निर्देशाः दत्ताः, येन विजयस्य अन्तरं वर्धयितुं शक्येत।
अध्यक्षतां कुर्वती जिला-अध्यक्षा डॉ.आशा-खेदड़ा उक्तवती यत् वरिष्ठ-नेतॄणां निर्देशानुसारं उकलाना-पालिका-निर्वाचने सर्वं सम्यक् प्रचलति। भाजपा-उम्मीदवार निकिता-गोयलायै जनानां सर्ववर्गात् समर्थनं प्राप्यते, तस्याः विजयः च सुनिश्चितः अस्ति।
जनपद-मीडिया-प्रभारी राजेन्द्र-सपड़ा अवदत् यत् अस्यां सभायाम् उपर्युक्तानां अतिरिक्तं पूर्व-चेयरमैन जगदीश-चोपड़ा, पूर्व-मन्त्री अनूप-धानकः तथा सुरेन्द्र-आर्यः अपि स्व-विचारान् व्यक्तवन्तः। सभायाम् जनपद-महामन्त्री कृष्ण-सरसाना, सिरसा-जनपदाध्यक्षः अधिवक्ता यतेन्द्र-सिंहः, कार्यालय-प्रमुखः रामफल-नैनः, चन्द्र-प्रकाश-बोस्ती, बहादुर-सिंह-नंगथला, पूनम-मेहता, अशोक-गर्गः, कपिल-नारंगः, समीर-इंदौरा, राजेश-बंसलः, सुमित-लितानी तथा चेयरमैन रविन्द्र-मलिकः इत्येतै: सह अनेके पदाधिकारिण: उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता