Enter your Email Address to subscribe to our newsletters

जयपुरम्, 29 अप्रैलमासः (हि.स.)।
हरिभाऊ बागडे उक्तवान् यत् जनगणनायै १ मे तः १५ मे २०२६ पर्यन्तं स्वगणनापटलं गत्वा स्वस्य परिवारस्य च यथार्थ-विवरणं प्रविष्टुं जनान् प्रति अपीलं कृतवान्। तेन उक्तं यत् १६ मे तः १४ जून पर्यन्तं गणनाकर्मिणः प्रदेशवासिनां गृहेषु गृहेषु गमिष्यन्ति। प्रथमे चरणे मोबाइल-आवेदनद्वारा आवासानां सूची, सुविधाः, सम्पत्तयः अन्ये आवश्यक-आङ्कडाः च सङ्ग्रहीताः भविष्यन्ति।
राज्यपालः बागडे उक्तवान् यत् “जनगणना” केवलं जनानां गणना नास्ति, अपि तु शिक्षा, रोजगारः, लिङ्गानुपातः, जातिगतप्रदत्त इत्यादीनाम् आधारेण राष्ट्रस्य सामाजिक-दस्तावेजस्य निर्माणम् अस्ति। एतेन भारते सर्वेषां जनानां कृते कल्याणकारी-कार्यक्रमाः, विकास-योजनाः, उत्तम-नीतयः च सम्यक् रूपेण कार्यान्वीकर्तुं शक्यन्ते।
---------------
हिन्दुस्थान समाचार