समग्रे देशे गृह-उपयोगी एलपीजी-वाते: निर्बाधा आपूर्तिः प्रवर्तते : केन्द्र-सर्वकारः
नव-देहली-नगरम्, २९ अप्रैलमासः (हि.स.)। पश्चिम-एशिया-प्रदेशे परिवर्तमान-परिस्थितिनां मध्ये केन्द्र-सर्वकारेण बुधवासरे उक्तं यत् समग्रे देशे गृह-पाक-वाते: (एलपीजी) आपूर्तिः निर्बाधतया सुचारुरूपेण प्रवर्तते। सर्वकारेण उक्तं यत् एलपीजी-वितरकेषु कस्यापि
अंतर-मंत्रालयी प्रेस वार्ता को संबोधित करते सुजाता शर्मा


नव-देहली-नगरम्, २९ अप्रैलमासः (हि.स.)। पश्चिम-एशिया-प्रदेशे परिवर्तमान-परिस्थितिनां मध्ये केन्द्र-सर्वकारेण बुधवासरे उक्तं यत् समग्रे देशे गृह-पाक-वाते: (एलपीजी) आपूर्तिः निर्बाधतया सुचारुरूपेण प्रवर्तते। सर्वकारेण उक्तं यत् एलपीजी-वितरकेषु कस्यापि न्यूनतायाः काचित् अपि सूचना न प्राप्ता, अपि च ऑनलाइन-आदेश-प्रणाली (बुकिङ्ग) अद्यावधि उच्चतम-स्तरं प्राप्तवती।

पेट्रोलियम-प्राकृतिक-वाति-मन्त्रालयस्य संयुक्त-सचिवा सुजाता-शर्मा नव-देहली-नगरे आयोजितायां अन्तर-मन्त्रालयीय-वार्तायां उक्तवती यत् देशे कुत्रापि एलपीजी-वितरकेषु भण्डार-समाप्तेः काचित् अपि सूचना न अस्ति। सा अवदत्—“पश्चिम-एशिया-संकटस्य कारणात् एलपीजी-आयाते किञ्चित् प्रभावः जातः, किन्तु अस्माकं गृह-उपयोगी एलपीजी-आपूर्तिः निर्बाधतया एव प्रवर्तते।”

तया उक्तं यत् एलपीजी-वितरकेषु न्यूनतायाः काचित् अपि सूचना न प्राप्ता। सा अपि अवदत् यत् अन्तर्जाल-एलपीजी-आदेश-प्रणाली तथा वितरण-प्रमाणीकरण-संकेत-आधारितः (ऑथेन्टिकेशन-कोड्) आपूर्ति-प्रणाली अपि अद्यावधि उच्चतम-स्तरे वर्तते। भारत-सर्वकारेण पञ्च-किलोग्राम-परिमित-अनीलकोषाणाम् आपूर्तिः द्विगुणिता कृता। फरवरी-मासे प्रायः २१-लक्ष-परिमिताः पञ्च-किलोग्राम-अनीलकोषा: विक्रीताः, अप्रैल-मासे च अद्यावधि प्रायः २१.०५-लक्ष-अनीलकोषा: विक्रीताः सन्ति।

संयुक्त-सचिवया उक्तं यत् सार्वजनिक-क्षेत्रीय-तेल-विपणन-सम्भागैः (पीएसयू) प्रायः ९५५० जागरूकता-शिविराणि आयोजितानि, यत्र प्रायः १.५-लक्ष-पञ्च-किलोग्राम-अनीलकोषा: विक्रीताः। सा अवदत्—“खुद्रा-विक्रय-केन्द्राणि सामान्यरूपेण कार्यं कुर्वन्ति, पर्याप्तः भण्डारः उपलब्धः अस्ति, अपक्व-तैलस्य भण्डारः अपि पर्याप्तः अस्ति, शोधनलिकायाः पूर्ण-क्षमतया कार्यं कुर्वन्ति।” मुम्बई, कोच्चि, विशाखापट्टनम्, चेन्नई, मथुरा तथा गुजरात-स्थित-शोधनालयैः ८९०० टन प्रोपलीन तथा ९५० टन ब्यूटाइल-एक्रिलेट् विक्रयः कृतः।

अपरतः, बन्दरगाह-नौवहन-जलमार्ग-मन्त्रालयस्य अतिरिक्त-सचिवः मुकेश-मङ्गलः अवदत् यत् ‘शिपमिन्-इण्डिया’ इत्यस्य माध्यमेन २८ अप्रैल-पर्यन्तं मन्त्रालयानां समन्वयेन स्थितेः सूक्ष्म-निरीक्षणं क्रियते। डीजी-शिपिङ्ग-नियन्त्रण-कक्षेण अद्यावधि ८०००-अधिकाः दूरभाष-संपर्काः तथा १७०००-अधिकाः ईमेल-सन्देशाः व्यवहृताः, यत्र गत-२४-घण्टासु ११४ कॉल् तथा २७६ ईमेल अन्तर्भवन्ति। तथा च शिपिङ्ग-महानिदेशालयेन २८२९ भारतीय-नाविकानां सुरक्षा सुनिश्चिती कृता, येषु गत-२४-होरासु २९ नाविकाः सन्ति। सर्वे बन्दरगाहाः सामान्यरूपेण कार्यं कुर्वन्ति, कुत्रापि सम्मर्द-स्थितेः काचित् अपि सूचना न प्राप्ता।

हिन्दुस्थान समाचार / अंशु गुप्ता