जयपुरे खातीपुरा स्थानकं निर्मास्यते मेगा सैटेलाइट टर्मिनल इति, रेलयानानां हैंडलिंग क्षमतायां भविष्यति महाविस्तारः
नवदिल्ली, 29 अप्रैलमासः (हि.स.)। राजस्थान-राज्यस्य राजधानी जयपुर-नगरे रेल-अवसंरचनां सुदृढां कर्तुं महत्त्वपूर्णः प्रयासः क्रियते। नगरस्य उपनगरीय-क्षेत्रे स्थितं खातीपुरा रेलवे स्टेशन पूर्णतया आत्मनिर्भरं मेगा-टर्मिनल-स्थानकरूपेण विकसितं क्रियमाणम
जयपुर में खातीपुरा स्टेशन का प्रतिकात्मक चित्र


नवदिल्ली, 29 अप्रैलमासः (हि.स.)।

राजस्थान-राज्यस्य राजधानी जयपुर-नगरे रेल-अवसंरचनां सुदृढां कर्तुं महत्त्वपूर्णः प्रयासः क्रियते। नगरस्य उपनगरीय-क्षेत्रे स्थितं खातीपुरा रेलवे स्टेशन पूर्णतया आत्मनिर्भरं मेगा-टर्मिनल-स्थानकरूपेण विकसितं क्रियमाणम् अस्ति। एतत् स्थानकं भविष्ये जयपुर जंक्शन-इत्यस्य विकल्परूपेण उद्भविष्यति तथा च वर्धमानानां रेलयानानां संख्यां व्यवस्थापयितुं महत्त्वपूर्णां भूमिकां निर्वहिष्यति।

रेल मंत्रालय-इत्यस्य अनुसारं खातीपुरा-स्थानकं आधुनिक-यात्रिसुविधाभिः अत्याधुनिक-तकनीकी-साधनैः च सुसज्जितं क्रियते। अत्र रेलयानानां परिपालनं, प्रक्षालनं निरीक्षणं च कर्तुं विस्तीर्ण-अवसंरचना निर्मीयते। कोच-केयर-कॉम्प्लेक्स-निर्माणं प्रायः २०५ कोटि-रूप्यकाणां व्ययेन प्रवर्तते, यस्मिन् स्वचालित-कोच-प्रक्षालन-यन्त्रं, संगणकीकृत-चक्र-प्रोफाइल-प्रबन्धन-प्रणाली, कोच-उत्थापन-यूनिट्, उच्च-क्षमता-क्रेन्-इत्यादयः सुविधाः सन्निहिताः भविष्यन्ति।

अस्मिन् स्थानके वर्तमानकाले षट् उच्च-स्तरीय-प्लेटफॉर्माः अष्ट रेल-रेखाः च सन्ति, येन यात्रिकाणां आरोहण-अवरोहणं सुलभं भविष्यति तथा च रेलयानानां गमनागमनं सुचारुरूपेण सम्पद्यते। अतिरिक्तं रेलयानानां परिपालनाय, शण्टिङ्-कार्याय, स्थापनाय च पृथक्-पृथक् रेखाः विकसिताः क्रियन्ते। जयपुर तथा दौसा-दिशयोः अतिरिक्त-रेखाणां निर्माणं क्रियमाणम् अस्ति, येन परिचालन-क्षमता उल्लेखनीयतया वर्धिष्यते।

परियोजनायाः अन्तर्गतं द्वि-स्तरीय-लिनन-मेंटेनेंस-भवनं, त्रि-स्तरीय-प्रशासनिक-भवनं, यार्ड-मास्टर-कार्यालयं च निर्मीयते। सह एव चक्र-लेथ-शेड्, चार्जिङ्-सुविधाः, जल-पूर्तये विशेष-व्यवस्थाः अपि क्रियन्ते।

रेल मंत्रालय उक्तवान् यत् खातीपुरा-स्थानकस्य सैटेलाइट-टर्मिनल-रूपेण विकासेन दिल्ली कॉरिडोर सहितं दीर्घ-दूरी-मार्गेषु नूतन-रेलयान-परिचालनस्य सम्भावनाः वर्धिष्यन्ति। एतत् स्थानकं वंदे भारत एक्सप्रेस, एलएचबी कोच तथा डीएमयू ट्रेन-इत्यादीनां विभिन्न-रेकाणां केन्द्रीय-परिपालन-केन्द्रं अपि भविष्यति।

खातीपुरा-मेगा-टर्मिनलस्य विकासानन्तरं जयपुर-जंक्शन-स्थानके भारः न्यूनः भविष्यति तथा च नगराय एकं वैकल्पिकं आधुनिकं रेल-टर्मिनल-स्थानकं उपलब्धं भविष्यति।

---------------

हिन्दुस्थान समाचार