Enter your Email Address to subscribe to our newsletters

शिमला-नगरम्, २९ अप्रैलमासः (हि.स.)। हिमाचल-प्रदेशे नगर-निगम-निर्वाचनानां संदर्भे राजनैतिक-गतिविधयः तीव्रतां गताः सन्ति। अस्मिन् क्रमॆ भारतीय-जनता-पक्षेण मण्डी-नगर-निगमस्य सर्वेषां पञ्चदश-वार्ड-इत्येतेषां कृते स्वीय-अधिकृत-अभ्यर्थिनां घोषणा कृता। दलस्य प्रदेशाध्यक्षः डॉ.राजीव-बिन्दलः बुधवासरे निर्गतायां विज्ञप्तौ वार्ड-अनुसरम् अभ्यर्थिनां नामानि घोषितवान्।
भाजपा-दलेन मण्डी-नगर-निगमस्य १५ वार्ड-इत्येतेषां कृते अभ्यर्थिनः नामनिर्दिष्टाः। खलियार-वार्ड-इत्यस्मात् रणवीर-सिंहः, पुरानी-मण्डी-वार्ड-इत्यस्मात् सरिता-हाण्डा, पड्डल-वार्डात् निर्मल-वर्मा, नेला-वार्डात् च मंजू-देवी नामनिर्दिष्टाः। मंगवाई-वार्डात् कृष्णा-ठाकुरः, सनयारड़ (अनुसूचित-जाति) वार्ड-इत्यस्मात् वीरेन्द्र-सिंह-आर्यः तथा तल्याहड़-वार्ड-इत्यस्मात् जितेन्द्र-सिंहः अभ्यर्थितया स्थापिताः।
एवमेव पैलेस-कालोनी-१-वार्ड-इत्यस्मात् गुरदीप-कौर:, पैलेस-कालोनी-२-वार्ड-इत्यस्मात् सुमन-ठाकुर:, सुहड़ा (अनुसूचित-जाति-महिला) वार्डात् नेहा-कुमारी तथा समखेतर-वार्ड-इत्यस्मात् जितेन्द्र-शर्मा अभ्यर्थितया स्थापिता:। भगवाहन-वार्ड-इत्यस्मात् गगन-कश्यपः, थनेहड़ा-वार्डात् रजनी-शर्मा, बैहना (अनुसूचित-जाति) वार्डात् गुरबचन-सिंहः तथा दोहंदी (अनुसूचित-जाति-महिला) वार्ड-इत्यस्मात् रीता-देवी दलस्य अभ्यर्थिनी घोषिताः।
अतिरिक्ततया पालमपुर-नगर-निगमस्य द्वयोः वार्ड-इत्येतयोः कृते अपि भाजपा-दलेन अभ्यर्थिनां घोषणा कृता। राजपुर-वार्ड-इत्यत्र किरण-देवी तथा होल्टा-वार्ड-इत्यत्र लता-देवी अभ्यर्थिनीरूपेण घोषिते।
उल्लेखनीयम् यत् प्रदेशस्य चतुर्षु नगर-निगमेषु—मण्डी, धर्मशाला, पालमपुर तथा सोलन—इत्येषु १७ मईदिने मतदानं भविष्यति, मतगणना च ३१ मई दिने विधास्यते। गतवारं २०२१ वर्षे सम्पन्नेषु निर्वाचनासु धर्मशाला-मण्डी-नगरयोः भाजपा विजयं प्राप्तवती, यदा पालमपुर-सोलन-नगरयोः काँग्रेस-दलं विजयी अभवत्।
हिन्दुस्थान समाचार / अंशु गुप्ता