मध्यप्रदेशो बनारसतः शुभारब्धस्य अमृत भारत एक्सप्रेसयानस्य अद्य हरदायां भविष्यति भव्यं स्वागतम्
हरदा, 29 अप्रैलमासः (हि.स.)।नरेन्द्र मोदिना प्रधानमन्त्रिणा बनारस-रेलवे-स्थानकात् प्रारब्धा “अमृत-भारत-एक्सप्रेस” नाम रेलयानम् अद्य बुधवासरे हरदा-रेलवे-स्थानकं प्राप्स्यति। अत्र जनप्रतिनिधीनां, रेलविभाग-अधिकारिणां तथा नागरिकानां उपस्थितौ अस्य रेलया
अमृत भारत एक्सप्रेस


हरदा, 29 अप्रैलमासः (हि.स.)।नरेन्द्र मोदिना प्रधानमन्त्रिणा बनारस-रेलवे-स्थानकात् प्रारब्धा “अमृत-भारत-एक्सप्रेस” नाम रेलयानम् अद्य बुधवासरे हरदा-रेलवे-स्थानकं प्राप्स्यति। अत्र जनप्रतिनिधीनां, रेलविभाग-अधिकारिणां तथा नागरिकानां उपस्थितौ अस्य रेलयानस्य भव्यं स्वागतं विधास्यते।

जनसम्पर्क-अधिकारी सुरेन्द्र-तिवारी उक्तवान् यत् प्रधानमन्त्रिणा गत-मङ्गलवासरे बनारस-रेलवे-स्थानकात् “अमृत-भारत-एक्सप्रेस” उद्घाटिता। तेन सह गाडी-संख्या 22589/22590 बनारस-हडपसर-बनारस “अमृत-भारत-एक्सप्रेस” इत्यस्य नियमित-संचालनम् अपि आरब्धम्। शुभारम्भोत्तरं गाडी-संख्या 02531 उद्घाटन-विशेष-सेवा अद्य प्रातः १०:२० वादने हरदा-रेलवे-स्थानकं प्राप्स्यति, यत्र अस्य भव्यं स्वागतं क्रियते।

अस्मिन् अवसरे जनप्रतिनिधयः, रेलविभाग-अधिकारिणः, नागरिकाश्च उपस्थिताः भविष्यन्ति, यत्र दुर्गा दास उईके केन्द्रीय-जनजातीय-कार्य-राज्यमन्त्री अपि सहभागित्वं करिष्यति। “अमृत-भारत-एक्सप्रेस” संचालनस्य कारणेन क्षेत्रीय-यात्रिकेभ्यः आधुनिक-सुविधायुक्ता तीव्रा, सुरक्षिताऽपि सुगमा रेलयात्रा लाभदायिनी भविष्यति। एषा सेवा क्षेत्रीय-संपर्कं यात्रिसुविधाः च सुदृढीकर्तुं महत्वपूर्णं पदम् इति मन्यते।

---------------

हिन्दुस्थान समाचार