Enter your Email Address to subscribe to our newsletters

प्रधानमन्त्री नरेन्द्रमोदी उत्तरप्रदेशस्य दीर्घतमस्य गङ्गा एक्सप्रेसमार्गस्य लोकार्पणं कृतवान्। प्रधानमन्त्रिणाऽपि घोषितं यत् अयं मार्गः मेरठनगरात् अग्रे हरिद्वारपर्यन्तं विस्तारितः भविष्यति।
लखनऊ, २९ अप्रैल। प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे उत्तरप्रदेशस्य हरदोईजनपदे प्रदेशस्य दीर्घतमस्य गङ्गा एक्सप्रेसमार्गस्य लोकार्पणं कृतवान्। सः उक्तवान् यथा गङ्गा माता सहस्रवर्षेभ्यः उत्तरप्रदेशस्य अस्य देशस्य च जीवनरेखा आसीत्, तथैव आधुनिकप्रगतियुगे अस्याः समीपे गच्छन् अयं गङ्गा एक्सप्रेसमार्गः राज्यस्य विकासस्य नूतना जीवनरेखा भविष्यति।
गङ्गा एक्सप्रेसमार्गस्य लोकार्पणसमये उपस्थितं जनसमूहं सम्बोधयन् प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् एतदपि संयोगः अस्ति यत् गतचतुर्पञ्चदिनेषु अहं गङ्गामातुः सान्निध्ये आसीत्। अद्य प्रातः काश्यां दर्शनं कृतवान्। अधुना गङ्गानाम्ना निर्मितस्य अस्य मार्गस्य लोकार्पणस्य अवसरः प्राप्तः। मम हर्षः अस्ति यत् उत्तरप्रदेशसरकारेण अस्य नाम गङ्गामातुः नाम्ना स्थापितम्। अस्मिन् विकासस्य दृष्टिः अपि दृश्यते, परम्परायाः छाया अपि दृश्यते। अहं उत्तरप्रदेशस्य कोटिशः जनान् अभिनन्दामि।
प्रधानमन्त्री अवदत् यत् अद्य लोकतन्त्रस्य महत्त्वपूर्णः उत्सवदिनः अस्ति। बंगालप्रदेशे द्वितीयचरणस्य मतदानं प्रचलति। आगच्छन्त्यः समाचाराः दर्शयन्ति यत् तत्र बहुसंख्यया मतदानं भवति। प्रथमचरणवत् जनाः उत्साहेन मतदानाय निर्गच्छन्ति। दीर्घाः पङ्क्तयः सामाजिकमाध्यमेषु दृश्यन्ते। गतपञ्चषष्टिवर्षेषु यत् नाभवत् तत् अद्य भवति। जनाः निर्भयतया मतदानं कुर्वन्ति। एतत् संविधानस्य सुदृढलोकतन्त्रस्य च प्रतीकः अस्ति। सः बंगालजनतायाः प्रति कृतज्ञतां प्रकटितवान् तथा अवशिष्टसमये अपि मतदाने भागग्रहणाय प्रार्थितवान्।
सः अवदत् यत् अल्पकालपूर्वं बिहारराज्ये निर्वाचनेषु भाजपा एनडीए इत्यस्य ऐतिहासिकविजयः अभवत्। अद्यतनदिने गुजरातप्रदेशे निकायपञ्चायतनिर्वाचनपरिणामाः प्राप्ताः, यत्र भाजपा प्रायः अशीतिप्रतिशतं स्थानानि जितवती। अस्मिन् समये जनसमूहः “मोदी मोदी” इति घोषं कृतवान्। सः विश्वासं व्यक्तवान् यत् भाजपा पञ्चसु राज्येषु विधानसभानिर्वाचनेषु पुनरपि विजयलाभं करिष्यति। चतुर्थमईदिनाङ्के परिणामाः विकसितभारतसंकल्पं दृढीकुर्युः।
प्रधानमन्त्री अवदत् यत् देशस्य विकासाय तीव्रेण आधारभूतसंरचनानिर्माणं आवश्यकम्। दिसम्बरमासे २०२१ तमे वर्षे शाहजहानपुरे गङ्गा एक्सप्रेसमार्गस्य शिलान्यासः कृतः। अल्पकालेन एव अयं विशालः मार्गः निर्मितः। अद्य हरदोईतः अस्य लोकार्पणं भवति। न केवलं निर्माणं सम्पन्नम्, अपि तु विस्तारयोजना अपि आरब्धा। शीघ्रमेव अयं मार्गः मेरठात् हरिद्वारपर्यन्तं विस्तारितः भविष्यति। एषा द्विचक्रसरकारस्य कार्यशैली अस्ति।
सः अवदत् यत् पूर्वं एकस्य मार्गस्य निर्माणाय दशकेषु प्रतीक्षा कर्तव्या आसीत्। शिलान्यासः क्रियते स्म, किन्तु कार्यं न पूर्णं भवति स्म। अधुना तु शिलान्यासः भवति चेत् उद्घाटनमपि भवति। अयं मार्गः येषु प्रदेशेषु गच्छति, तेषां भूमिः उर्वरा अस्ति, किन्तु पूर्वसरकाराः कार्यं न अकुर्वन्। शीतगृहाणां अभावः आसीत्, विपणिषु गमनस्य अवसरः नासीत्, कृषकाः वञ्चिताः आसन्।
अधुना कृषकाः स्वोत्पादनानि महानगरविपणिषु नयितुं शक्नुवन्ति। औद्योगिकमार्गाः विकसिताः भवन्ति। द्वादशसु जनपदेषु उद्योगस्य नवानि अवसराणि सृज्यन्ते। उत्तमसंपर्कव्यवस्थया स्थानीयउद्योगानां विकासः भविष्यति। लक्षशः परिवाराणां आयवृद्धिः भविष्यति। पूर्वं हरदोई उन्नावादिषु जनपदेषु औद्योगिकविकासस्य कल्पना अपि नासीत्। अधुना उत्तरप्रदेशः एकट्रिलियनडॉलरआर्थिकव्यवस्थायाः दिशि अग्रसरति।
सः अवदत् यत् भारतदेशे निर्मीयमाणेषु दूरभाषयन्त्रेषु अर्धसंख्या उत्तरप्रदेशे निर्मीयते। अत्र औद्योगिकविकासः सामरिकशक्तिरूपेण परिवर्तते। ब्रह्मोस इव क्षेपणास्त्राणि अपि अत्र निर्मीयन्ते। रक्षा उपकरणनिर्माणे लघुउद्योगाः अपि सहभागी भवन्ति। पूर्वं मार्गाभावः आसीत्, अधुना तु सर्वत्र एक्सप्रेसमार्गाः सन्ति। अधुना विमानस्थानकानि अपि निर्मीयन्ते।
प्रधानमन्त्री उक्तवान् यत् पूर्वं उत्तरप्रदेशस्य माफियाविषये चलचित्राणि निर्मीयन्ते स्म, अधुना तु उत्तमकानूनव्यवस्थायाः उदाहरणं दत्तं भवति। केचन दलाः विकासं न रोचन्ते। ते विकासविरोधिनः नारीविरोधिनः च सन्ति, येन महिला आरक्षणविधेयकस्य अपि विरोधः कृतः।
अस्मिन् अवसरे उत्तरप्रदेशस्य राज्यपालः आनन्दीबेनपटेल, मुख्यमन्त्री योगीआदित्यनाथः, केन्द्रीयवित्तराज्यमन्त्री पङ्कजचौधरी, केन्द्रीयराज्यमन्त्री जितिनप्रसाद, उपमुख्यमन्त्री केशवप्रसादमौर्यः तथा ब्रजेशपाठक, मन्त्री सुरेशकन्ना, नन्दगोपालगुप्तनन्दी, असीमरुण इत्यादयः अन्ये च गणमान्याः उपस्थिताः आसन्।
हिन्दुस्थान समाचार