Enter your Email Address to subscribe to our newsletters

वाराणसी-नगरम्, २९ अप्रैलमासः (हि.स.)। प्रधानमन्त्री-नरेन्द्रमोदी-महाभागः अद्य उत्तरप्रदेशस्य हरदोई-जनपदे गङ्गा-एक्सप्रेस-वे इति राष्ट्राय समर्पयिष्यति। सः पूर्वोत्तर-राज्यस्य सिक्किम-प्रदेशस्य द्विदिनात्मक-यात्रां समाप्य श्वः सायं द्विदिनीय-यात्रार्थं स्वस्य संसदीय-क्षेत्रं वाराणसी-नगरं प्राप्तवान्। सिक्किम-प्रदेशात् प्रस्थानात् पूर्वं सः पूर्वोत्तरस्य स्वर्गरूपेण प्रसिद्धं तत् राज्यं चतुःसहस्र-कोटि-रूप्यकाधिक-परिमितानां परियोजनानां उपहारं दत्तवान्। इति सूचना शासकीय-विज्ञप्तौ प्रदत्ता अस्ति।विज्ञप्त्यानुसारं प्रधानमन्त्री-नरेन्द्रमोदी-महाभागः श्वः सायं वाराणसी-नगरं प्राप्तवान् तथा च महिला-सम्मेलने भागं गृहीतवान्। सः उत्तरप्रदेशस्य कृते षट्सहस्र-त्रिशत-पञ्चाशत् (६,३५०) कोटि-रूप्यक-परिमितानां विविध-विकास-परियोजनानाम् उपहारं गृहीत्वा वाराणसीं प्राप्तवान्। अद्य प्रातः लगभगं अष्टवादने अर्धे (८:३०) प्रधानमन्त्री श्रीकाशीविश्वनाथ-मन्दिरे पूजां करिष्यति। ततः सः हरदोई-जनपदं प्रस्थित्य प्रातः लगभगं एकादशवादने अर्धे (११:३०) गङ्गा-एक्सप्रेस-वे इत्यस्य उद्घाटनं करिष्यति तथा च अस्मिन् अवसरं सभां सम्बोधयिष्यति।
गङ्गा-एक्सप्रेस-वे भारतदेशे विश्वस्तरीय-अवसंरचना-विकासस्य महत्त्वपूर्णा उपलब्धिः अस्ति। अयं ५९४ किलोमीटर-दीर्घः, षड्-पंक्ति-युक्तः (अष्ट-लेनपर्यन्तं विस्तारयोग्यः), प्रवेश-नियन्त्रितः हरितक्षेत्र-उच्चगति-परिसर: अस्ति। अस्मिन् परियोजनायां प्रायः ३६,२३० कोटि-रूप्यकाणि व्ययीकृतानि। अयं एक्सप्रेस-वे मेरठ, बुलन्दशहर, हापुड़, अमरोहा, सम्भल, बदायूं, शाहजहांपुर, हरदोई, उन्नाव, रायबरेली, प्रतापगढ़ तथा प्रयागराज इत्येतेषु द्वादश-जनपदेषु प्रवहति।
अनेन उत्तरप्रदेशस्य पश्चिम-मध्य-पूर्व-भागाः एकेन अविच्छिन्न-उच्चगति-मार्गेण संयोजिताः भवन्ति। अधुना मेरठ-प्रयागराज-नगरयोः मध्ये यात्रा-समयः यः पूर्वं १०–१२ घण्टाः आसीत्, सः अधुना प्रायः ६ होरासु संक्षिप्तः भविष्यति।
अस्या: परियोजनायाः प्रमुख-विशेषता शाहजहांपुर-जनपदे ३.५ किलोमीटर-दीर्घा आपातकालीन-लैण्डिङ्ग-सुविधा (विमानपट्टिका) निर्माणम् अस्ति। एषा द्वैध-उपयोग-युक्ता अवसंरचना राष्ट्रिय-सुरक्षा-सज्जतां सुदृढयति तथा आर्थिक-लाभानां अतिरिक्तं रणनीतिक-महत्त्वं अपि प्रददाति।
गङ्गा-एक्सप्रेस-वे प्रमुख-आर्थिक-परिसररूपेण परिकल्पितः अस्ति। अस्य मार्गे स्थितेषु द्वादश-जनपदेषु प्रायः २,६३५ हेक्टेयर-क्षेत्रे एकीकृत-उत्पादन-तथा-लॉजिस्टिक्स-गलियारा विकासिताः भविष्यन्ति। अयं एक्सप्रेस-वे परिवहन-व्ययम् न्यूनीकरिष्यति, आपूर्ति-शृङ्खला-दक्षतां वर्धयिष्यति तथा उत्पादन-प्रतिस्पर्धां प्रोत्साहयिष्यति।
कृषकाणां कृते अपि एतेन शहरी-निर्यात-विपणानां प्रत्यक्ष-प्रवेशः सुलभः भविष्यति, येन तेषां अधिक-लाभः प्राप्तः भविष्यति तथा ग्रामीण-आयः वर्धिष्यते। एवं च पर्यटनस्य विकासः, नूतन-आर्थिक-अवसराणां सर्जनं तथा व्यापक-रूपेण प्रत्यक्ष-अप्रत्यक्ष-रोजगार-सृजनं अपि अपेक्षितम् अस्ति।
गङ्गा-एक्सप्रेस-वे उत्तरप्रदेशे व्यापक-एक्सप्रेस-वे-जालस्य मेरुदण्डरूपेण अपि कार्यं करिष्यति। एषा परियोजना केवलं परिवहन-परियोजना न, अपि तु एकः महत्त्वपूर्णः परिवर्तनकारी-उपक्रमः अस्ति, यः समग्र-राज्यस्य आर्थिक-विकासाय नवीनां गतिं प्रदास्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता