गुजरात-राज्ये निकाय-निर्वाचनेषु भारतीय-जनता-पक्षेण २०२१-वर्षात् अपि महान् विजयः प्राप्त:
अहमदाबाद-नगरम्, २९ अप्रैलमासः (हि.स.)। गुजरात-राज्ये स्थानीय-नगरपालिका-महानगरपालिका-जनपद-तहसील-पंचायत-निर्वाचनानां परिणामाः मङ्गलवासरे घोषिताः। मतगणनानन्तरं भारतीय-जनता-पक्ष: (भाजपा) पुनः प्रचण्डं विजयं प्राप्तवान्।अस्यां निर्वाचन-प्रक्रियायां राज्
भाजपा की प्रचंड जीत


अहमदाबाद-नगरम्, २९ अप्रैलमासः (हि.स.)। गुजरात-राज्ये स्थानीय-नगरपालिका-महानगरपालिका-जनपद-तहसील-पंचायत-निर्वाचनानां परिणामाः मङ्गलवासरे घोषिताः। मतगणनानन्तरं भारतीय-जनता-पक्ष: (भाजपा) पुनः प्रचण्डं विजयं प्राप्तवान्।अस्यां निर्वाचन-प्रक्रियायां राज्यस्य १५ महानगरपालिकानां, ८४ नगरपालिकानां, ३४ जिला-पंचायतानां तथा २६० तहसील-पंचायतानां स्थानानां कृते मतदानं जातम्। आहत्य १०,००५ स्थानेषु ७३२ स्थानानि पूर्वमेव निर्विरोध-निर्वाचितानि आसन्।

परिणामानुसारं भाजपा सर्वेषु १५ महानगरपालिकासु स्वाधिकारं धारयति। ८४ नगरपालिकासु ७८ स्थानेषु भाजपा विजयी, ६ स्थानेषु कांग्रेस-दलः विजयी अभवत्। ३४ जिला-पंचायतेषु ३३ स्थानेषु भाजपायाः आधिपत्यं स्थापितम्। २६० तहसील-पंचायत-स्थानानां मध्ये २५३ स्थानानि भाजपायाः भागे गतानि, शेषेषु ७ स्थानेषु कांग्रेस-आम-आदमी-पार्टी-दलयोः विजयः अभवत्।

सूरत-महानगरपालिकायां अपि भाजपा ११५ स्थानानि जित्वा स्वप्रभावं स्थापयामास। अत्र आम-आदमी-पार्टी, या २०२१-निर्वाचने २७ स्थानानि प्राप्तवती, अस्मिन् वारे केवलं ४ स्थानेषु सीमिता अभवत्। कांग्रेस-दलाय १ स्थानं प्राप्तम्।

भाजपायाः एतत् प्रदर्शनं २०२१-वर्षस्य निर्वाचनात् अपि अधिकः श्रेष्ठः इति मन्यते। पक्ष: सर्वेषु महानगरपालिकासु पूर्णं नियंत्रणं धारयति, तथा नगर-ग्राम-स्तरेषु अपि विशाल-बहुमतं प्राप्तवती।

निर्वाचन-विश्लेषकाः वदन्ति यत् नगर-क्षेत्रेषु भाजपायाः सुदृढं मताधारं निरन्तरं स्थितम् अस्ति, यत्र तस्य प्राय: ५९ प्रतिशतं मत-भागः प्राप्तः। ग्रामीण-क्षेत्रेषु कांग्रेस-दलं मुख्य-विपक्षरूपेण स्थितः अस्ति, किन्तु आम-आदमी-पक्ष-दलस्य वर्धमान-प्रभावात् तस्य हानिः अपि दृश्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता