केदारनाथ धाम यात्रायाः प्राक् सप्ताहे लक्षद्वयात् अधिकाः श्रद्धालवोऽकुर्वन् दर्शनम्
देहरादूनम्, 29 अप्रैलमासः (हि.स.)। विश्वप्रसिद्धा केदारनाथ धाम-यात्रा प्रति श्रद्धालूनां उत्साहः परमं शिखरं प्राप्तवान् अस्ति। कपाटोद्घाटनस्य अनन्तरं प्रथमसप्ताहे अद्यावधि कुलं द्वे लक्षे सप्त सहस्रे चतुःशतद्विपञ्चाशत् (२०७४५२) श्रद्धालवः बाबा के
बाबा केदारनाथ


देहरादूनम्, 29 अप्रैलमासः (हि.स.)।

विश्वप्रसिद्धा केदारनाथ धाम-यात्रा प्रति श्रद्धालूनां उत्साहः परमं शिखरं प्राप्तवान् अस्ति। कपाटोद्घाटनस्य अनन्तरं प्रथमसप्ताहे अद्यावधि कुलं द्वे लक्षे सप्त सहस्रे चतुःशतद्विपञ्चाशत् (२०७४५२) श्रद्धालवः बाबा केदारस्य दर्शनं कृतवन्तः।

रुद्रप्रयाग पुलिस-इत्यस्याः पक्षतः बुधवासरे मध्यान्हे यात्रायाः सांख्यिकाः प्रकाशिताः। सामाजिक-माध्यमेन उक्तं यत् वर्धमानस्य जनसमूहस्य अपि मध्ये श्रद्धालूनां सुगमदर्शनस्य सुनिश्चित्यर्थं प्रभाविन्यः व्यवस्थाः क्रियन्ते। केदारनाथधामं प्रति आगच्छन्तः सर्वे श्रद्धालवः पङ्क्तिबद्धतया नियोज्य सुगमदर्शनं प्राप्नुवन्ति, तथा च नियुक्ताः कर्मचारीणः निरन्तरं संवादं स्थापयन्ति, कुशलप्रश्नं कुर्वन्ति, यात्रिकाणां उत्साहं च वर्धयन्ति।

पुलिसेन उक्तं यत् प्रथमसप्ताहे अद्यावधि द्वे लक्षे सप्त सहस्रे चतुःशतद्विपञ्चाशत् श्रद्धालवः दर्शनं कृतवन्तः। प्रतिकूलवायुमण्डलपरिस्थितिषु अपि, स्वस्वास्थ्यस्य अपि ध्यानं कृत्वा पुलिसबलं स्वकर्तव्यं निर्वहति।

त्वरितसहायतार्थं यात्रामार्गे अष्टौ “खोया-पाया”-केन्द्राणि स्थापितानि सन्ति, यत्र पुलिसबलस्य तैनाती कृता अस्ति। विषमभौगोलिकस्थितिषु राहतकार्येषु पुलिसबलं, एसडीआरएफ तथा डीडीआरएफ इत्येतैः सह सततं समन्वयं कृत्वा कार्यं करोति।

श्रद्धालूनां सुरक्षां सुगमदर्शनं च सुनिश्चित्य, चलदूरभाषादीनि आवश्यकवस्तूनि प्राप्तुं साहाय्यं क्रियते, तथा च बिछिन्नाः श्रद्धालवः स्वपरिवारैः सह पुनर्मिलन्ति। यात्रामार्गेषु सहायतार्थं “खोया-पाया”-केन्द्राणि स्थापितानि सन्ति।

पुलिसेन उक्तं यत् अद्यावधि यात्राकाले साहाय्यार्थं कुलं २६५ दूरवाणीकॉलाः प्राप्ताः। तेषां सापेक्षं १०० बिछिन्नश्रद्धालवः स्वजनैः सह मिलिताः, ३० चलदूरभाषाः, ४५ पुटकानि (श तथा थैलाः, १० अन्यानि मूल्यवानि वस्तूनि (आभरणादीनि) च पुनः प्राप्तानि। अतिरिक्तं वृद्धानां अशक्तानां च श्रद्धालूनां मन्दिरदर्शनसमये आवश्यकसहाय्यं प्रदत्तम्।

हिन्दुस्थान समाचार