Enter your Email Address to subscribe to our newsletters

चेन्नई-नगरम्, २९ अप्रैलमासः (हि.स.)। तमिलनाडु-राज्यस्य आरक्षक-विभागेन ४ मई-दिने भविष्यत् मतगणनायै सज्जता आरब्धा। आरक्षक-महानिदेशकेन विभागस्य कर्मचारिभ्यः २ मईतः आरभ्य अन्यादेशपर्यन्तं अवकाशं न ग्राह्यम् इति निर्देशः निर्गतः। तेन उक्तं यत् केवलं वैध-कारणैः पूर्वमेव अवकाशे स्थितानां कृते अस्य आदेशस्य अपवादः भविष्यति। विधानसभा-निर्वाचनस्य मतगणनां दृष्ट्वा २ मई २०२६तः कस्यापि अवकाश-ग्रहणं निषिद्धम् इति स्पष्टतया उक्तम्। तमिलनाडु-राज्ये २३४ विधानसभा-आसनेषु एकस्मिन् एव चरणे २३ अप्रैल-दिने मतदानं सम्पन्नम्। जनानां दृष्टिः विजयस्य नूतन-पक्षे “तमिलगा-वेत्रि-कळगम्” इति केन्द्रिता अस्ति।
आरक्षक-महानिदेशकेन अपि स्पष्टं कृतं यत् केवलं चिकित्सावकाशः, मातृत्वावकाशः, बाल-परिचर्यावकाशः तथा शैक्षणिक-अवकाशः इत्यादयः वैध-कारणाः सन्ति, तेषाम् आधारेण एव अवकाशः अनुमन्यते। निर्वाचन-आयोगेनापि घोषितं यत् मतगणना-कार्येषु ग्रामीण-विकास-विभागस्य अधिकारिणः न सम्मिलिताः भविष्यन्ति। अन्यतः अद्य सायंकालात् एव एग्जिट-पोल-प्रसारणं आरभ्यते
हिन्दुस्थान समाचार / अंशु गुप्ता