Enter your Email Address to subscribe to our newsletters

देहरादून-नगरम्, २९ अप्रैलमास: २०२६ (हि.स.)। कुम्भ-मेलापक-२०२७-इत्यस्य सज्जतासु सम्बन्धितायां बुधवासरे सचिवालये आयोजितायां उच्चस्तरीय-सभायां मुख्य-सचिवः आनन्द-बर्द्धनः निर्माण-कार्येषु विलम्बं प्रति तीव्रां रुष्टतां व्यक्तवान्। तेन सम्बन्धित-विभागान् प्रति निर्देशाः दत्ताः यत् सर्वासाम् आपत्तिनां निस्तारणं कृत्वा त्रिदिनान्तराले शासनादेशाः निर्गम्यन्ताम्।
सभायां मुख्य-सचिवेन कुम्भ-सम्बद्ध-निर्माण-कार्याणां समीक्षां कृत्वा भूम्यधिग्रहण-आवंटन-प्रक्रियायाः शीघ्रारम्भाय तथा ३० जून-पर्यन्तं तस्याः समापनाय निर्देशाः दत्ताः। तेन उक्तं यत् कुम्भ-मास्टर-प्लान-अन्तर्गताः सर्वाः निर्माण-सम्बद्धाः संस्थाः स्व-कार्यालयान् सुदृढान् कुर्वन्तु तथा आवश्यक-नियोजनानि शीघ्रं सुनिश्चितयन्तु। अस्थायी-स्वभावस्य कार्याणि अपि प्राथमिकतया शीघ्रं आरभ्यन्ताम् इति निर्दिष्टम्। गढ़वाल-आयुक्ताय अपि भूम्यधिग्रहण-आवंटन-प्रक्रियायाः मास्टर-प्लान-अन्तर्भावनाय निर्देशाः दत्ताः।
सभायां कुम्भ-मेलापककाले यातायात-प्रबन्धन-विषये विस्तृतः विचार-विमर्शः अभवत्। मुख्य-सचिवः मेलाधिकारी, कुम्भ-आईजी तथा रेल-विभागीय-अधिकारीन् शीघ्रं समन्वय-सभां कृत्वा रेल-मार्ग-यातायात-योजनां अन्तिमरूपेण निर्धारितुं निर्देशितवान्। हरिद्वार, नजीबाबाद तथा मंगलौर-मार्गेषु मार्ग-सुधारः, जङ्क्शन-निर्माणं स्पर-निर्माणं च शीघ्रं सम्पादयितुं बलं दत्तम्। तदनन्तरं समीपस्थ-जनपदेषु यातायात-योजना तथा पार्किङ्-सुविधानां विस्ताराय जनपदाधिकारिभ्यः अपि निर्देशाः दत्ताः।
मुख्य-सचिवः आकस्मिक-यातायात-योजनायाः पूर्वतया सज्जतां, प्रवेश-बिन्दुषु पार्किङ्-व्यवस्था, भोजन-व्यवस्था, शौचालय-व्यवस्था च सुनिश्चितयितुं बलं दत्तवान्। कुम्भ-क्षेत्रे स्वच्छतायाः संरक्षणाय समर्पितं स्वच्छता-योजनां निर्मातुं तथा पर्याप्त-सूचना-केन्द्राणि स्थापयितुं निर्देशाः दत्ताः।
अतिरिक्ततया, कुम्भ-मेलाकाले प्रदेशस्य लोक-संस्कृतेः प्रोत्साहनाय सांस्कृतिक-कार्यक्रमाणां आयोजनस्य उत्तरदायित्वं संस्कृति-पर्यटन-सूचना-विभागेभ्यः समर्पितम्। मुख्य-सचिवेन निर्देशितं यत् प्रमुख-स्नान-पर्वाणि वर्जयित्वा अन्येषु दिवसेषु नियमितरूपेण पौराणिक-ऐतिहासिक-लोक-संस्कृतिसम्बद्धाः कार्यक्रमाः आयोज्यन्ताम्, येन देश-विदेशेभ्यः आगच्छन्तः श्रद्धालवः समृद्धं सांस्कृतिक-अनुभवं प्राप्नुयुः।
सभायां सचिवः नितेश-कुमार-झा, डॉ.पंकज-कुमार-पाण्डेयः, बृजेश-कुमार-सन्तः, विनय-शंकर-पाण्डेयः, श्रीधर-बाबू-अद्दांकी, रणवीर-सिंह-चौहानः, मेलाधिकारी सोनिका, कुम्भ-आईजी योगेन्द्र-सिंह-रावतः तथा मुरादाबाद-रेल-प्रभागस्य वरिष्ठ-अधिकारिणः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता