चतुर्मुख-विकासस्य आधारः भविष्यति गङ्गा-एक्सप्रेस-वे : मुख्यमन्त्री योगी-आदित्यनाथः
हरदोई-नगरम्, २९ अप्रैलमासः (हि.स.)। प्रधानमन्त्री-नरेन्द्र-मोदी-महाभागेन बुधवासरे देशस्य महानतमस्य गङ्गा-एक्सप्रेस-वे-इत्यस्य लोकार्पण-कार्यक्रमे मुख्यमन्त्री योगी-आदित्यनाथः उक्तवान् यत् दिसम्बर-मासे २०२१ तमे वर्षे प्रधानमन्त्रिणा स्थापितः शिलान्य
कार्यक्रम को संबोधित करते मुख्यमंत्री योगी आदित्यनाथ


हरदोई-नगरम्, २९ अप्रैलमासः (हि.स.)। प्रधानमन्त्री-नरेन्द्र-मोदी-महाभागेन बुधवासरे देशस्य महानतमस्य गङ्गा-एक्सप्रेस-वे-इत्यस्य लोकार्पण-कार्यक्रमे मुख्यमन्त्री योगी-आदित्यनाथः उक्तवान् यत् दिसम्बर-मासे २०२१ तमे वर्षे प्रधानमन्त्रिणा स्थापितः शिलान्यासः अद्य साकाररूपेण परिणतः। अयं ५९४ किलोमीटर-दीर्घः एक्सप्रेस-वे अन्नदाता-कृषकाणां उन्नतये, यूनां रोजगाराय, आस्था-संस्कृतेः संरक्षणाय तथा उत्तरप्रदेशस्य समृद्धये प्रमुखं साधनं भविष्यति।

मुख्यमन्त्री उक्तवान् यत् मेरठ-नगरात् प्रयागराज-नगरपर्यन्तं विस्तृता इयं आधुनिक-अवसंरचना-परियोजना द्वादश-जनपदानां लक्षाधिक-कृषकाणां योगदानेन साकारिता। अनेन सह २७ स्थानेषु समन्वित-औद्योगिक-समूहाः (इंटीग्रेटेड इंडस्ट्रियल क्लस्टर) तथा लॉजिस्टिक-केन्द्राणि विकसितानि सन्ति, ये आवागमनं शीघ्रतरं करिष्यन्ति तथा नूतन-निवेश-रोजगारयोः द्वाराणि उद्घाटयिष्यन्ति। द्वि-इंजन-शासनस्य दूरदर्शितायाः प्रतीकः अयं एक्सप्रेस-वे उत्तरप्रदेशं नूतन-उच्चता: प्रति नयति। तेन बलं दत्तं यत् यस्याः परियोजनायाः शिलान्यासः क्रियते, तस्याः उद्घाटनम् अपि सुनिश्चितं भवति।

मुख्यमन्त्री उक्तवान् यत् ‘नव-भारत’-कल्पनायाः साकारे वर्तमानकाले ‘नव-उत्तरप्रदेशे’ विकसिताः आधुनिक-अवसंरचनाः न केवलं आवागमनं सुलभं कुर्वन्ति, अपि तु अर्थव्यवस्थां नूतन-उच्चतां प्रति नयन्ति। एतत् परिवर्तनं प्रधानमन्त्री-नरेन्द्र-मोदी-महाभागस्य दृष्टेः स्पष्ट-नीतिना, शुद्ध-नीयत्या तथा प्रभावी-क्रियान्वयनेन भूमौ अवतारितः परिणामः अस्ति। २०१७ वर्षात् पूर्वं प्रदेशः परिवारवाद-जातिवाद-दङ्ग-अराजकता-कर्फ्यू-माफिया-राज-पर्यावरणेन ग्रस्तः आसीत्, यत्र विकास-रोजगार-निवेशानां कल्पना अपि दुष्करा आसीत्। किन्तु गत-नववर्षेषु द्वि-इंजन-शासनस्य प्रयासैः उत्तरप्रदेशे एक्सप्रेस-वे, हाइवे, जनपद-मार्गाः ग्राम्य-मार्गाः च मिलित्वा प्रायः चत्वारि-लक्ष-किलोमीटर-परिमितं विशालं जालं निर्मितम्। सर्वेषां जनपद-केन्द्राणां चतुर्पंक्ति-मार्गैः, प्रत्येक-ब्लॉक-तहसील-केन्द्राणां च चतुर्लेन-द्विलेन-मार्गैः संयोजनं सफलतया कृतम्।

मुख्यमन्त्री उक्तवान् यत् देशस्य प्रथम-रैपिड-रेल-योजना दिल्ली-मेेरठनगरयोः मध्ये उद्घाटिता, येन दूरीणां संकोचनं जातम्। उत्तरप्रदेशस्य अपार-सम्भावनानां विकासाय कृताः प्रयासाः अधुना एक्सप्रेस-वे, रैपिड-रेलयानं, अन्तर्देशीय-जलमार्गाः, मेट्रो तथा समर्पित-भार-रेल-मार्ग: (डेडिकेटेड फ्रेट कॉरिडोर) इत्यादिषु दृश्यन्ते। एते सर्वे द्वि-इंजन-शासनस्य शक्तेः प्रमाणम्। एते एक्सप्रेस-वे न केवलं दूरिणां न्यूनीकरणे सीमिताः, अपि तु तेषां सह रक्षा-उद्योग-परिक्रमाः (डिफेन्स मैन्युफैक्चरिंग कॉरिडोर) अपि सम्बद्धाः सन्ति, ये प्रदेशस्य समग्र-विकासाय योगदानं ददति।

तेन उक्तं यत् गङ्गा-एक्सप्रेस-वे-सहित २७ स्थानेषु औद्योगिक-समूहाः तथा लॉजिस्टिक-केन्द्राणि विकसितानि सन्ति, ये निवेश-रोजगारयोः नूतन-द्वाराणि उद्घाटयिष्यन्ति। अस्य निर्माणाय प्रायः अष्टादश-सहस्र-एकर-परिमिता भूमिः कृषकेभ्यः प्राप्ता। तस्य पार्श्वयोः विकसितानां औद्योगिक-केन्द्राणां कृते अपि प्रायः सप्त-सहस्र-एकर-भूमिः उपयुज्यते। द्वादश-जनपदेषु लक्षाधिक-कृषकाः भूमिं प्रदाय अस्य परियोजनायाः सफलतायां महत्त्वपूर्णं योगदानं दत्तवन्तः, तेषां प्रति कृतज्ञता व्यक्ता।

अस्य पूर्वं प्रधानमन्त्री-नरेन्द्र-मोदी-महाभागेन गङ्गा-एक्सप्रेस-वे-इत्यस्य उद्घाटनं कृतम्। तेन कार्यक्रम-स्थले प्रथमं वृक्षारोपणं कृतम्, अनन्तरं उत्तरप्रदेश-एक्सप्रेस-वे-औद्योगिक-विकास-प्राधिकरणस्य (यूपीडा) प्रदर्शनीम् अवलोकितवान्, यत्र प्रदेशस्य सम्पूर्ण-एक्सप्रेस-वे-जालस्य विवरणं प्रदर्शितम् आसीत्। अस्मिन् अवसरे मुख्यमन्त्री योगी-आदित्यनाथः अपि तेन सह आसीत्। जनसभायां मुख्यमन्त्री प्रधानमन्त्रिणे मातृ-गङ्गायाः प्रतिमां स्मारकरूपेण समर्पितवान्।

अस्मिन् अवसरे राज्यपालः आनन्दी-बेन-पटेल:, केन्द्रीय-वित्त-राज्य-मन्त्री तथा भाजपा-प्रदेशाध्यक्षः पंकज-चौधरी, केन्द्रीय-मन्त्री जितिन-प्रसादः, उपमुख्यमन्त्री केशव-प्रसाद-मौर्यः तथा बृजेश-पाठकः, मन्त्री सुरेश-कुमार-खन्ना, नन्द-गोपाल-गुप्त-नन्दी, नितिन-अग्रवालः, असीम-अरुणः, रजनी-तिवारी च अन्ये अतिथयः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता