प्रधानमन्त्री-नरेन्द्रमोदी-महाभागः किञ्चित् समयानन्तरं श्रीकाशीविश्वनाथ-मन्दिरे दर्शन-पूजनं करिष्यति, यतश्च आरक्षक-प्रशासनं सज्जितम् अस्ति
वाराणसी-नगरम्, २९ अप्रैलमासः (हि.स.)। प्रधानमन्त्री-नरेन्द्रमोदी-महाभागः स्वस्य द्विदिनात्मक-वाराणसी-यात्रायाः अन्तिम-दिने अद्य किञ्चित् समयानन्तरं श्रीकाशीविश्वनाथ-मन्दिरे दर्शन-पूजनार्थं बरेका-गेस्ट-हाउस-त: प्रस्थानं करिष्यति। तेन सह उत्तरप्रदेशस
मंदिर मार्ग पर सतर्क अफसर


वाराणसी-नगरम्, २९ अप्रैलमासः (हि.स.)। प्रधानमन्त्री-नरेन्द्रमोदी-महाभागः स्वस्य द्विदिनात्मक-वाराणसी-यात्रायाः अन्तिम-दिने अद्य किञ्चित् समयानन्तरं श्रीकाशीविश्वनाथ-मन्दिरे दर्शन-पूजनार्थं बरेका-गेस्ट-हाउस-त: प्रस्थानं करिष्यति। तेन सह उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः अपि भविष्यति।

बरेका-गेस्ट-हाउस-त: मन्दिरपर्यन्तं मार्गे प्रधानमन्त्रिणः स्वागताय सम्पूर्णः मार्गः सुशोभितः अस्ति। प्रातःकालात् एव जनाः बैरिकेडिंग-व्यवस्थायां पंक्तिबद्धाः अभवन्। प्रधानमन्त्री प्रायः १४ किलोमीटर-परिमितां दूरीं रोड-शो-रूपेण गत्वा मन्दिरं प्राप्स्यति।

भारतीय-जनता-पक्ष-काशी-क्षेत्राध्यक्षः दिलीप-पटेलः उक्तवान् यत् बरेका-स्थितेः काशीविश्वनाथ-मन्दिरपर्यन्तं मार्गे पञ्च-स्वागत-बिन्दवः (पॉइण्ट्स) निर्मिताः सन्ति। एतेषु स्थानेषु भाजपाकार्यकर्तारः ढोल-नगाड़क-वादनैः, शङ्खनादेन तथा गुलाब-पुष्प-पत्र-वृष्ट्या प्रधानमन्त्रिणः स्वागतं करिष्यन्ति। अत्र प्रदेश-सरकारस्य मन्त्रीगणाः, जनप्रतिनिधयः, पक्ष-पदाधिकारिणः तथा काशी-नगरे जनाः उपस्थिताः भविष्यन्ति।

पञ्च-स्वागत-बिन्दवः मण्डुवाडीह, पुलिस-लाइन, लहुराबीर, मैदागिन, चौक तथा काशीविश्वनाथ-मन्दिर-द्वार-पर्यन्तं स्थापिताः सन्ति, यत्र भव्य-स्वागतं भविष्यति।

मन्दिरे अपि दर्शन-पूजनाय व्यापक-सुरक्षा-व्यवस्था कृता अस्ति। प्रधानमन्त्री मन्दिरस्य गर्भगृहे प्रायः १० निमेषपर्यन्तं अर्चकानां मार्गदर्शनेन दर्शन-पूजनं करिष्यति। सः पूर्वम् अपि २०२५-वर्षस्य नवम्बर-मासे अस्मिन् मन्दिरे दर्शनार्थं आगतः आसीत्।

हिन्दुस्थान समाचार / अंशु गुप्ता