प्रधानमन्त्री-नरेन्द्रमोदी-महाभागः श्रीकाशी-विश्वनाथस्य मन्दिरे उपस्थितिं कृतवान्, बालकेषु स्नेहं वर्षितवान्, हरदोई-नगरं प्रति प्रस्थितः
वाराणसी-नगरम् (उत्तरप्रदेशः), २९ अप्रैलमासः (हि.स.)। भारतस्य प्रधानमन्त्री नरेन्द्रमोदी-महाभागः स्वीयस्य द्विदिनात्मक-वाराणसी-प्रवासस्य अन्तिमे दिने बुधवासरे प्रातःकाले काशीपुराधिपतेः बाबा-विश्वनाथस्य स्वर्णिम-दरबारे विधिवत् उपस्थितिं कृतवान्। वैदि
धाम में त्रिशूल और डमरू के साथ प्रधानमंत्री


मंदिर के गर्भगृह में बाबा का पूजन करते प्रधानमंत्री


मंदिर के गर्भगृह में बाबा का पूजन करते प्रधानमंत्री,इसके पहले डमरूवादन के बीच दरबार जाते हुए


मंदिर के गर्भगृह में बाबा का पूजन करते प्रधानमंत्री,इसके पहले डमरूवादन के बीच दरबार जाते हुए


वाराणसी-नगरम् (उत्तरप्रदेशः), २९ अप्रैलमासः (हि.स.)। भारतस्य प्रधानमन्त्री नरेन्द्रमोदी-महाभागः स्वीयस्य द्विदिनात्मक-वाराणसी-प्रवासस्य अन्तिमे दिने बुधवासरे प्रातःकाले काशीपुराधिपतेः बाबा-विश्वनाथस्य स्वर्णिम-दरबारे विधिवत् उपस्थितिं कृतवान्। वैदिक-मन्त्र-उच्चारणस्य मध्ये मन्दिरस्य स्वर्णमण्डिते गर्भगृहे बाबा-विश्वनाथस्य पावन-ज्योतिर्लिङ्गस्य षोडशोपचार-पूजा-अभिषेकं अर्चक-ओम्-प्रकाश-मिश्रः अन्यैः च पञ्चभिः ब्राह्मणैः सह सम्पन्नम्। अस्मिन् समये प्रधानमन्त्री अपि मन्त्रान् उच्चारयन् काशीपुराधिपतेः प्रति स्वीयम् अनुरागं श्रद्धाभावं च प्रदर्श्य देशस्य सुख-समृद्ध्यै मंगलकामनां कृतवान्।

दर्शन-पूजनस्य अनन्तरं प्रधानमन्त्री मन्दिर-परिसरे उपस्थितानां शिवभक्तानां अभिवादनं कृतवान्। काश्याः ५४-तमं प्रवासं कृतवान् प्रधानमन्त्री काशी-विश्वनाथ-मन्दिरे ५१ ब्राह्मणानां शङ्खध्वन्या सह प्रविष्टः। अस्मिन् अवसरे “हर-हर महादेव” इति जयघोषाः अभवन्। धाम्नि डमरू-निनादैः बटुकानां शङ्खनादैः च सह मन्दिर-न्यासस्य अध्यक्षः अन्ये पदाधिकाऱिणः च प्रधानमन्त्रिणः स्वागतं कृतवन्तः। विधिवत् दर्शन-पूजनं कृत्वा प्रधानमन्त्री हरदोई-नगरं प्रति गन्तुं बाबतपुर-विमानतलं प्रति प्रस्थितः।

अस्मात् पूर्वं प्रातःकाले प्रायेण अष्टवादने प्रधानमन्त्री बरेका-आतिथ्य-गृहात् श्री-काशी-विश्वनाथ-मन्दिरं प्रति प्रस्थितः। सः ककरमत्ता-आरओबी मार्गेण मण्डुवाडीह-चतुष्पथ:, ततः फुलवरिया-उड्डयनसेतुमार्गेण सेण्ट्रल-जेल-मार्गं यावत् शोभायात्रां कृत्वा गतवान्। ततः जे.पी.-मेहता-तिराहा मार्गेण आम्बेडकर-चतुष्पथ:, कचहरी-गोलघर, ततः पुलिस-लाइन-तिराहा प्राप्तवान्। तस्मात् मकबूल-आलम-मार्गेण चौकाघाट, लहुराबीर, कबीरचौरा, मैदागिन मार्गेण प्रायेण १४ किलोमीटर-परिमितां दूरीं गत्वा मन्दिरं प्राप्तवान्। अस्मिन् मार्गे भाजपाकार्यकर्तारः काशीवासिनः च ढोल-नगाड़-डमरू-शङ्खध्वनिभिः गुलाब-पुष्प-पत्र-वर्षया च “हर-हर महादेव” तथा “जय श्रीराम” इति घोषैः प्रधानमन्त्रिणः अभूतपूर्वं स्वागतं कृतवन्तः। सम्पूर्णे मार्गे जनाः पुष्पवर्षां कृत्वा स्वीयं स्नेहं प्रदर्शितवन्तः। जनानां प्रेम-स्नेह-आत्मीयतया अभिभूतः प्रधानमन्त्री हस्तं चलयन् तेषां अभिवादनं स्वीकृत्य अग्रे गतवान्।

दर्शन-पूजनस्य अनन्तरं प्रधानमन्त्रिणे भाजपाया: स्थानीय-नेतारः त्रिशूलं डमरू च उपहाररूपेण दत्तवन्तः। ततः प्रधानमन्त्री तौ दर्शयित्वा शिवभक्तानां “हर-हर महादेव” इति घोषस्य प्रत्युत्तरं कृतवान्। अस्मिन् अवसरे महापौरः अशोक-तिवारी, प्रदेशस्य मन्त्री अनिल: राजभर-महाभागः अन्ये च उपस्थिताः आसन्।

प्रधानमन्त्री नरेन्द्र मोदी-महाभागः श्री-काशी-विश्वनाथ-मन्दिरे दर्शन-पूजनस्य अनन्तरं मन्दिर-चतुष्पथे आगतान् बालकान् प्रति स्नेहं प्रदर्श्य तैः सह संवादं कृतवान्, स्नेहेन तेषां शिरांसि स्पृष्टवान्। तेन पृष्टेषु प्रश्नेषु बालकाः हर्षेण प्रसन्नाः दृश्यन्ते स्म।

हिन्दुस्थान समाचार / अंशु गुप्ता