Enter your Email Address to subscribe to our newsletters

नव-देहली-नगरम्, २९ अप्रैलमासः (हि.स.)। रेलमन्त्री अश्विनी-वैष्णवः गुरुवासरे जम्मू-तवी-रेलवे-स्थानके विस्तारितां श्रीनगर–कटरा वन्दे-भारत-एक्सप्रेस-सेवां हरित-ध्वजं दर्शयिष्यति। इयं रेलयानं, या अद्यावधि श्रीनगरात् श्रीमाता-वैष्णो-देवी-कटरा-पर्यन्तं सञ्चलति स्म, अधुना तु प्रत्यक्षतया जम्मू-तवी-पर्यन्तं गमिष्यति। एवं देशस्य अत्याधुनिक-रेलयानं जम्मू-कश्मीरस्य प्रमुख-नगरं तथा रेल-केन्द्रं यावत् प्रत्यक्षं सम्पर्कं प्राप्स्यति।
रेल-मन्त्रालयेन उक्तं यत् यात्रिणां वर्धमान-आवश्यकतां तथा लोकप्रियतां दृष्ट्वा अस्याः वन्दे-भारत-सेवायाः कोच-सङ्ख्या अष्ट-कोचतः विंशति-कोच-पर्यन्तं वर्धिता, येन आसन-क्षमता द्विगुणाधिकं वृद्धिम् अवाप। अनेन प्रतीक्षा-सूची-भारः न्यूनीभविष्यति तथा यात्रिणां सुविधाः वर्धिष्यन्ति।
हरित-ध्वज-प्रदर्शनानन्तरं रेलमन्त्री उधमपुर–श्रीनगर–बारामूला-रेल-सम्बन्ध-परियोजनायाः अन्तर्गतं निर्मितौ विश्वस्तरीय-इञ्जीनियरिङ्ग-कीर्तिस्तम्भौ अञ्जि-सेतुम् तथा चिनाब-रेल-सेतुम् अपि निरीक्षिष्यति।
विस्तारित-जम्मू-तवी–श्रीनगर-वन्दे-भारत-एक्सप्रेस-सेवायाः नियमित-प्रारम्भः २ मई-दिनाङ्कात् भविष्यति। अस्मिन् मार्गे द्वे युग्म-रेलयानानि सञ्चाल्यन्ते, यानि प्रायः २६६ किलोमीटर-दूरीं गमिष्यन्ति। यात्रिणः प्रातःकाले तथा अपराह्णे च यात्रायाः विकल्पं प्राप्स्यन्ति।
अस्या: परम्पराया: विशेषतः वैष्णो-देवी-तीर्थयात्रिणः, पर्यटकाः, व्यापारिणः तथा स्थानीय-जनाः महत् लाभं प्राप्स्यन्ति। अधुना यात्रिणः कटरा-स्थाने रेल-परिवर्तनं विना जम्मू-तवीतः श्रीनगरं यावत् अविच्छिन्नतया गन्तुं शक्नुवन्ति।
हिमकाले यदा जम्मू–श्रीनगर-राष्ट्रीय-राजमार्गः हिमपात-कारणात् अवरुद्धः भवति, तदा इयं वन्दे-भारत-रेल-सेवा विश्वसनीयः सुरक्षितः च विकल्पः भविष्यति। अत्याधुनिक-प्रौद्योगिक्या युक्ता इयं रेलगाडी माइनस-२० डिग्री सेल्सियस-पर्यन्तं तापमाने अपि सुचारुरूपेण सञ्चलितुं शक्नोति।
यूएसबीआरएल-परियोजनायां २७२ किलोमीटर-दीर्घा रेल-रेखा, ३६ सुरङ्गाः तथा ९४३ सेतवः निर्मिताः, येषु चिनाब-रेल-सेतुः विश्वस्य उच्चतमः रेल-आर्च-सेतुः अस्ति। अयं विस्तारः जम्मू-कश्मीरस्य रेल-आधुनिकीकरणे महत्त्वपूर्णा उपलब्धिः इति मन्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता