Enter your Email Address to subscribe to our newsletters

कोलकाता, 29 अप्रैलमासः (हि.स.)।पश्चिम बंगाल विधानसभा चुनाव 2026-निर्वाचनस्य द्वितीय-चरणे बुधवासरे सप्त-जिलेषु स्थितासु १४२ आसन्दिषु मतदान-प्रक्रिया प्रवर्तते। प्रातः सप्तवादनात् आरब्धं मतदानं सायं षड्वादनपर्यन्तं प्रवर्तिष्यते। प्रारम्भिक-द्विघण्टयोः मध्ये बहुषु मतदान-केन्द्रेषु ईवीएम-यन्त्र-दोषाः विलम्बस्य च परिवादाः अभवन्।
राज्यस्य बारासात, हाबरा, कल्याणी, शान्तिपुर-इत्यादिषु प्रदेशेषु तकनीकी-दोषकारणात् मतदानं विलम्बेन आरब्धम्, येन मतदातारः दीर्घ-श्रेणिषु प्रतीक्षां कर्तुं बाधिताः।
एतस्मिन् मध्ये केषुचित् स्थानेषु तनावः सङ्घर्षाश्च अपि ज्ञाताः। चाप्रा-प्रदेशे कस्यचित् मतदान-केन्द्रे भारतीय जनता पार्टी दलस्य एजेन्टेन सह मारपीडनस्य आरोपः कृतः। भाङ्गड़-प्रदेशे रात्रौ राजनैतिक-दलयोः मध्ये संघर्षः जातः, प्रातः तु स्थितिः शान्ता इति सूच्यते।
अभिषेक बनर्जी, तृणमूल कांग्रेस दलस्य नेता, मतदानोत्तरं आरोपितवान् यत् मतदातॄणां भयप्रदर्शनस्य प्रयासः क्रियते तथा भारत निर्वाचन आयोग स्वसीमान् अतिक्रम्य कार्यं करोति। अन्यतः मुख्यमन्त्री ममता बनर्जी विविध-मतदान-केन्द्राणि परिभ्रम्य मतदान-प्रक्रियायाः निरीक्षणं कृतवती।
भारत निर्वाचन आयोग राज्ये सर्वत्र कठोर-सुरक्षा-व्यवस्थां कृतवान्, बहुसंख्यकाः केन्द्रीय-बलाः अपि नियुक्ताः। सर्वासां शिकायतानां निवारणार्थं टोल-फ्री-संख्या अपि प्रकाशिताऽस्ति।
समग्रतया बहुषु स्थानेषु मतदानं शान्तिपूर्वकं प्रवर्तते, केषुचित् केन्द्रेषु तु तकनीकी-स्थानीय-समस्याः दृष्टाः।
---------------
हिन्दुस्थान समाचार