Enter your Email Address to subscribe to our newsletters


कोलकाता, 29 अप्रैलमासः (हि.स.)।
महुआ मोइत्रा विरुद्धं तृणमूल कांग्रेस सांसदस्य दिल्ली-नगरस्य मन्दिर-मार्ग-स्थिते साइबर-थाने लिखिता शिकायताऽङ्किता अस्ति। अस्याम् आरोपः कृतः यत् तया सामाजिक-माध्यमेषु कश्चित् कथितः कृत्रिमः (फर्जी) वीडियो साझीकृतः, येन अजय पाल शर्मा नामकस्य भारतीय-पुलिस-सेवा (आईपीएस) अधिकारीणः छवि-धूमिलीकरणस्य प्रयासः कृतः।
शिकायतकर्ता अभिषेक-दुबे इत्यस्य कथनम् अस्ति यत् सः वीडियो सम्भवतः कृत्रिम-बुद्धिमत्ता-प्रौद्योगिक्या निर्मितः। अस्य उद्देश्यं भ्रान्त-सूचना-प्रसारणं तथा निर्वाचन-पर्यावरणस्य प्रभावनं भवितुम् शक्यते। दुबे इत्यनेन सम्बन्धित-सामाजिक-माध्यम-मञ्चात् तस्य वीडियो-अपसारणार्थं अपि अनुरोधः कृतः।
अद्यापि तृणमूल कांग्रेस पक्षात् तथा महुआ मोइत्रा सांसदतः काचन आधिकारिक-प्रतिक्रिया न प्रकाशिताऽस्ति।
---------------
हिन्दुस्थान समाचार