बदरीनाथ धामं प्राप्नोत् गायकः कैलाश खेरो, भगवान बदरी-विशालस्य अकरोत् दर्शनम्
बद्रीनाथः, 29 अप्रैलमासः (हि.स.)। प्रसिद्धः सूफी-भजन-गायकः कैलाश-खेरः बुधवासरे मध्याह्ने बदरीनाथ-धामं प्राप्य भगवान् बदरीविशालस्य दर्शनं कृतवान् तथा विधिवत् पूजा-अर्चनां कृत्वा आशीर्वादं प्राप्तवान्। तस्य मन्दिर-प्रवेशे परिसरस्थितेषु श्रद्धालुषु वि
कैलाश खेर


बद्रीनाथः, 29 अप्रैलमासः (हि.स.)। प्रसिद्धः सूफी-भजन-गायकः कैलाश-खेरः बुधवासरे मध्याह्ने बदरीनाथ-धामं प्राप्य भगवान् बदरीविशालस्य दर्शनं कृतवान् तथा विधिवत् पूजा-अर्चनां कृत्वा आशीर्वादं प्राप्तवान्। तस्य मन्दिर-प्रवेशे परिसरस्थितेषु श्रद्धालुषु विशेषः उत्साहः दृष्टः।

अस्मिन् अवसरे बदरीनाथ-केदारनाथ-मन्दिर-समितेः प्रभारी-अधिकारी गिरीश-चौहानः तस्य स्वागतं कृत्वा भगवानः बदरीविशालस्य प्रसादं दत्त्वा तं सम्मानितवान्।

मन्दिरे विशेष-पूजा-अर्चनायाः काले कैलाश-खेरः देशस्य प्रदेशस्य च सुख-समृद्धये प्रार्थनां कृतवान्। सः अवदत् यत् बदरीनाथ-धामे आगत्य तेन आध्यात्मिकी शान्तिः सकारात्मक-ऊर्जा च अनुभूता, यात्रा-व्यवस्थाः अपि प्रशंसिताः।

अस्मिन् काले मन्दिर-अधिकारी राजेन्द्र-चौहानः, धर्माधिकारी स्वयंवर-सेमवालः, वेदपाठी रविन्द्र-भट्टः, वाणी-विलास-डिमरी, नोडल-अधिकारी (प्रोटोकॉल) प्रमोद-नौटियालः, उप-नोडल-अधिकारी सन्दीप-कपरुवाणः, अवर-अभियन्ता गिरीश-रावतः, वैभव-उनियालः, विकास-सनवालः अन्ये च बहवः उपस्थिताः आसन्। मन्दिर-परिसरे श्रद्धालूनां मध्ये कैलाश-खेरं समीपात् द्रष्टुं महती उत्सुकता आसीत्।

हिन्दुस्थान समाचार