Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 03 अप्रैलमासः (हि.स)।पश्चिम एशिया संकटस्य मध्ये टाटा समूहस्य अधीनस्थाः एयर इंडिया तथा एयर इंडिया एक्सप्रेस उभे मिलित्वा अद्य अस्मात् प्रदेशात् आगमन गमनयोः कृते कुलतः ३२ नियताः तथा अनियताः उड्डयानि संचालनं करिष्यतः।
एयर इंडिया इत्यनेन शुक्रवासरे प्रकाशिते वक्तव्ये उक्तं यत् एयर इंडिया तथा एयर इंडिया एक्सप्रेस तृतीय अप्रैल दिने पश्चिम एशियायाः प्रति तथा तस्मात् ३२ नियत अनियत उड्डयानि संचालयतः।
विमानसंस्थाया अनुसारं यात्रिक सहायार्थं संयुक्त अरब अमीरात देशस्य कृते १८ अनियत उड्डयानि अपि अस्मिन् समाविष्टानि सन्ति। नियामक अनुमतिभिः समर्थितानि एतानि संचालनानि दुबई अबू धाबी शारजाह मस्कट जेद्दा इत्यादीनि नगराणि परस्परं संयोजयन्ति।
एयर इंडिया उक्तवती यत् संयुक्त अरब अमीरातात् आगमन गमनयोः १८ अनियत उड्डयानि प्रस्थान स्थानकेषु स्लॉट उपलब्धतायाः तथा अन्येषां वर्तमान स्थितीनां आधारेण निर्भरिष्यन्ति। एतानि उड्डयानि यूएई देशे संबंधितैः भारतीय स्थानीय नियामक प्राधिकरणैः अपेक्षित अनुमतिभिः सह संचालयन्ते।
---------------
हिन्दुस्थान समाचार