देशात् अवैधप्रवेशिनः बहिःकर्तुं भाजपासर्वकारः प्रतिबद्धः - अमितशाहः
ग्वालपाड़ा (असमः), 03 अप्रैलमासः (हि.स.)। केन्द्रीयगृहमन्त्री अमितशाहो शुक्रवासरे दुधनायि-नगरस्य महाविद्यालयक्रीडाङ्गणे भाजपा-प्रत्याशी टङ्केश्वर-राभा इत्यस्य समर्थनार्थं निर्वाचनसभां सम्बोधितवान्। सः असमविधानसभानिर्वाचनस्य प्रसङ्गे द्विदिवसीयभ्
असम के दूध नई विधानसभा क्षेत्र में शुक्रवार को चुनावी सभा को संबोधित करते हुए केंद्रीय गृह मंत्री अमित शाह।


ग्वालपाड़ा (असमः), 03 अप्रैलमासः (हि.स.)।

केन्द्रीयगृहमन्त्री अमितशाहो शुक्रवासरे दुधनायि-नगरस्य महाविद्यालयक्रीडाङ्गणे भाजपा-प्रत्याशी टङ्केश्वर-राभा इत्यस्य समर्थनार्थं निर्वाचनसभां सम्बोधितवान्। सः असमविधानसभानिर्वाचनस्य प्रसङ्गे द्विदिवसीयभ्रमणेन असमराज्यं प्राप्तवान्।

सभां सम्बोधयन् अमितशाहः अवदत् यत् भाजपा-सरकारः देशात् अवैधानिकविदेशी-घुस्पैठकारिणः निष्कासयितुं प्रतिबद्धा अस्ति, राष्ट्रियसुरक्षा च तस्याः सर्वोच्चप्राथमिकता अस्ति। सः ग्वालपाड़ा-जिलायाः सर्वासु चतसृषु विधानसभास्थानेषु भाजपा-प्रत्याशिनां पक्षे मतदानं कर्तुं जनान् आह्वयत्।

इंडियननेशनलकांग्रेसदलं प्रति प्रहारं कुर्वन् शाहः आरोपितवान् यत् कांग्रेस-शासनकाले असमः अशान्तः कृतः, राज्यस्य संस्कृतेः संरक्षणाय च किमपि दृढकार्यं न कृतम्। तस्य विपरीते सः अवदत् यत् भाजपा असमस्य समृद्धां सांस्कृतिकविरासतं वैश्विकमञ्चे प्रतिष्ठापयितुं प्रयतते।

स्वस्य सरकारस्य उपलब्धीनां उल्लेखं कुर्वन् शाहः अवदत् यत् भाजपा-शासने प्रायः दशसहस्राधिकाः जनाः आयुधानि परित्यज्य मुख्यधारायां पुनः आनिताः। सः अपि उक्तवान् यत् एकलक्षपञ्चाशत्सहस्राधिकम् (१.५ लक्ष) एकरपरिमितं भूमिक्षेत्रं अतिक्रमणात् मुक्तं कृतम्।

केन्द्रीयमन्त्री आश्वासनं दत्तवान् यत् यदि आगामिषु पञ्चवर्षेषु भाजपा पुनः सत्तां प्राप्नोति तर्हि राज्ये काचिदपि हिंसात्मकघटना न भविष्यति। सः महिलाभ्यः प्रतिमासं त्रिसहस्ररूप्यकाणां आर्थिकसहाय्यं दातुं, युवानां कृते च जीविकासृजनाय नूतनान् उद्योगान् स्थापयितुं वचनम् अदात्।

स्वीयभाषणस्य अन्ते शाहः मतदातॄन् आह्वयत् यत् ते कांग्रेसपक्षे एकमपि मतं न दद्यु:, असमे विकासस्थैर्ययोः कृते च भाजपा-पक्षं समर्थयन्तु।

------------------

हिन्दुस्थान समाचार