Enter your Email Address to subscribe to our newsletters

गुवाहाटीनगरम्, ०३ अप्रैलमासः (हि.स.)। असमप्रदेशे विधानसभा-निर्वाचनाय मध्यक-सर्वकार-मन्त्री अमित-शाहस्य गोलकगञ्जे प्रस्तावितः निर्वाचन-सभा शुक्रवासरे हेलिकॉप्टर-विमानस्य तकनीकी-दोषात् निरस्ता।
सूत्राणि सूचयन्ति यत् अमित-शाहः द्विदिवसीयं असम-प्रवासं करोति, शुक्रवासरे तस्य प्रवासस्य द्वितीयः दिवसः अस्ति। अद्य मध्याह्ने तं गोलकगञ्जे जनसभाम् सम्बोधितुं आहूतम्, किन्तु हेलिकॉप्टर-दोषात् कार्यक्रमः निरस्तः। तथापि अमित-शाहः दूरवाणी-माध्यमेन जनतां सम्बोधितवान्।
उल्लेखनीयं यत् तस्य प्रवासे प्रथमदिने सर्वे निर्धारिताः कार्यक्रमाः सुचारू-रूपेण सम्पन्नाः। शुक्रवासरेऽपि तस्य बहवः निर्वाचन-कार्यक्रमाः प्रस्ताविताः आसन्, यस्मिन् गोलकगञ्ज-सभा अपि अन्तर्भूता।
हिन्दुस्थान समाचार / अंशु गुप्ता