असमे भाजपादलस्य नैर्वाचनिकम् अभियानं तीव्रम्, अमित शाहो, नितिन नवीनः, अर्जुन मुंडा, योगी आदित्यनाथश्च करिष्यन्ति जनसभाम्
गुवाहाटी, 03 अप्रैलमासः (हि.स.)। असमे भारतीय जनतादलस्य (भाजपा) निर्वाचनप्रचारकार्यक्रमं अधिकं तीव्रं कर्तुं सज्जा अभवत्। अद्य दलस्य अनेकाः वरिष्ठनेतारः राज्यस्य विभिन्नेषु प्रदेशेषु जनसभाः संबोधितुं गमिष्यन्ति। भाजपा राष्ट्रियाध्यक्षः नितिन नवीनः
Assam Assembly Election 2026. असम विधानसभा चुनाव 2026


गुवाहाटी, 03 अप्रैलमासः (हि.स.)। असमे भारतीय जनतादलस्य (भाजपा) निर्वाचनप्रचारकार्यक्रमं अधिकं तीव्रं कर्तुं सज्जा अभवत्। अद्य दलस्य अनेकाः वरिष्ठनेतारः राज्यस्य विभिन्नेषु प्रदेशेषु जनसभाः संबोधितुं गमिष्यन्ति।

भाजपा राष्ट्रियाध्यक्षः नितिन नवीनः अद्य पुनः असमं आगच्छति। सः दलस्य तथा राजग समर्थितानां अभ्यर्थिनां समर्थनार्थं कमलपुरे, मंगलदै तथा न्यू गुवाहाट्यां निर्वाचनसभाः करिष्यति।

तथैव झारखण्डस्य पूर्वमुख्यमन्त्री अर्जुन मुंडा अपि अद्य असमदौरे भविष्यति। सः ऊपरी असमे नाहरकटिया तथा तिनसुकिया जिल्लायाः टिंगखोंग प्रदेशे भाजपा अभ्यर्थिनां पक्षे प्रचारं करिष्यति।

उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः बरपेटा तथा बरसोला विधानसभाक्षेत्रयोः निर्वाचनजनसभाः संबोधितुं गमिष्यति।

केन्द्रीयगृहमन्त्री अमित शाह द्विदिवसीयदौरे असमे स्थितः अस्ति। स्वस्य दौरे द्वितीये दिने सः गोलकगंजे, दुधनै तथा पलाशबाडी प्रदेशेषु विशालजनसभाः संबोधितुं गमिष्यति।

विपक्षदलम् कांग्रेस अपि उत्साहेन निर्वाचनप्रचारं वहति। कांग्रेस नेता सचिन पायलट अद्य निर्वाचनसभाः संबोधितुं गमिष्यति।

एतस्मिन् समये एआईयूडीएफ समर्थनार्थं हैदराबादस्य सांसदः असदुद्दीन ओवैसी अपि अनेकासु निर्वाचनसभासु भागं गृह्णाति।

हिन्दुस्थान समाचार