Enter your Email Address to subscribe to our newsletters

-कॉमन फैसिलिटीकेंद्रस्य सुविधाप्राप्तेः अनन्तरं ब्लैक पॉटरी इत्यस्य व्यापारस्तीव्रतया वर्धितः
आजमगढम् , 03 अप्रैलमासः(हि.स.)।उत्तरप्रदेशस्य आज़मगढ़-जनपदः स्वस्य समृद्धया सांस्कृतिकनिक्षेपेण पारम्परिकशिल्पकलया च विशेषतः प्रसिद्धः अस्ति। अत्र निज़ामाबाद-प्रदेशस्य “ब्लैक-पॉटरी” (कृष्णमृत्तिकाशिल्पम्) इति कला विश्वेऽपि स्वीयां विशिष्टां पहचानं धारयति। अस्मिन् शिल्पे प्रयुज्यमाना विशेषप्रकारस्य मृद् (चिक्कणी-मृत्तिका) स्थानीयस्तरे एव उपलब्धा भवति, या अस्य कलायाः विशेषतां वर्धयति।
निज़ामाबाद-प्रदेशे द्विशताधिकाः (२००+) शिल्पकाराः परम्परागतशिल्पेन सम्बद्धाः सन्ति। एते शिल्पकाराः स्वकौशलस्य प्रयोगेन विविधप्रकाराणि उत्पादानि निर्मिमन्ति, यथा—पुष्पपात्राणि, पात्राणि, चायदानीयानि, शर्करादानीयानि, अलङ्कारवस्तूनि च। एतेषां उत्पादानां याचना न केवलं देशे, अपि तु विदेशेष्वपि तीव्रतया वर्धते, यतः एतानि वस्तूनि उपयोगी अपि सन्ति, सौन्दर्यदृष्ट्या च अतीव आकर्षकानि।
आज़मगढ़स्य एषः शिल्पोद्योगः न केवलं सांस्कृतिकदृष्ट्या महत्त्वपूर्णः, अपि तु आर्थिकदृष्ट्याऽपि स्थानीयजनानां जीवनस्य दृढाधारः अस्ति। जनपदस्य अर्थव्यवस्थायां कृषेः सह एषः प्राचीनोद्योगः अपि महत्त्वपूर्णं योगदानं करोति। निज़ामाबादस्य “फैन्सी-पॉटरी” विशेषतः स्वस्य नक्काशी-शोभया, द्युति-युक्तेन कृष्णवर्णेन च प्रसिद्धा अस्ति।
कुम्भकारसमुदायेन निर्मितानि मृण्मयानि पात्राणि तथा देवप्रतिमाः (गणेशः, लक्ष्मीः, शिवः, दुर्गा, सरस्वती च) मेलासु उत्सवेषु च विशेषतः लोकप्रियाः भवन्ति। एतासु कलाकृतिषु पारम्परिकश्रद्धाया: कलात्मकतायाश्च सुन्दरः समन्वयः दृश्यते।
अस्याः ब्लैक-पॉटरीकलायाः प्रमुखा विशेषता तस्याः गाढः कृष्णवर्णः अस्ति, यः विशेषप्रक्रियया प्राप्तः भवति। शिल्पकाराः प्रथमं निर्मितपात्रं मृद्-वनस्पति-द्रवमिश्रे निमज्जयन्ति, येन तस्य आधारवर्णः निर्मीयते। ततः तं विशेषतया पाचयन्ति, आकर्षकद्युतेः कृते पारद-राङ्ग-सीसादीनि तत्त्वानि उपयुज्यन्ते।
अस्यां दिशि योगी-सर्वकारेण अपि प्रयत्नाः क्रियन्ते। “एक-जिलाएक-उत्पाद” (ओडीओपी) योजना द्वारा आज़मगढ़स्य ब्लैक-पॉटरी नूतनाय परिचयाय विस्तीर्णं विपणिं च प्राप्तवती। शिल्पकारेभ्यः प्रशिक्षणं वित्तीयसहाय्यं उत्तमविपणनावकाशाः च प्रदीयन्ते। तेषां आयः निरन्तरं वर्धते। अतः एषा पारम्परिककला अद्यतनकाले अपि स्वीयां विशिष्टां स्थिति धारयन्ती प्रगतिपथे अग्रे गच्छति।
प्रदेशसरकारस्य प्रवक्ता उक्तवान् यत् अस्य अमूल्यधरोहरस्य संरक्षण-संवर्धनयोः कृते सर्वकारः निरन्तरं प्रयासरतः अस्ति, शिल्पकारेभ्यः च प्रोत्साहनं दत्तं भवति, येन एषा कला आगामिसंततिषु अपि जीविता सुरक्षिताऽस्ति।
निज़ामाबादस्य ब्लैक-पॉटरी-फाउण्डेशनस्य निदेशकः संजयकुमारयादवः कथयति यत् योगी-सर्वकारस्य कारणेन तेषां कृते “कॉमन-फैसिलिटी-केंद्रस्य” (सीएफसी) सुविधा प्राप्ता। अस्याः सुविधायाः प्राप्त्या तेषां व्यापारः तीव्रतया वर्धितः। आधुनिकयन्त्राणां उपलब्धतया अधुना ते स्वादेशान् समये उत्तमगुणवत्तया च पूरयितुं समर्थाः भवन्ति। सः वदति यत् एतत् सर्वं मुख्यमन्त्री योगिनः आदित्यनाथस्य ओडीओपी-योजनायाः परिणामः अस्ति। अधुना ब्लैक-पॉटरी न केवलं देशे, अपि तु विदेशेषु अपि स्वीयां प्रसिद्धिं प्राप्तवती।
कॉमन-फैसिलिटी-केंद्रस्य स्थापनेन उत्पादनप्रक्रिया अतीव सुकरा जाता। अत्र कच्चद्रव्येभ्यः आरभ्य सर्वाणि आधुनिकयन्त्राणि उपलब्धानि सन्ति। शिल्पकाराः तत्र आगत्य स्वोत्पादान् निर्माय, तान् संयोज्य, पश्चात् स्वनिर्धारितमूल्येन विपण्यां विक्रयन्ति। अस्याः सुविधायाः कारणेन ते महान्तमपि आदेशं सफलतया पूर्णं कर्तुं समर्थाः अभवन्, येन तेषां व्यापारस्य उल्लेखनीयवृद्धिः जाता।
हिन्दुस्थान समाचार