शुभेंदु अधिकारिणः मार्गयात्रायां कलहोत्तरं सक्रियम् आरक्षिदलम्
कोलकाता, 03 अप्रैलमासः (हि. स.)। भवानीपुरे भाजपा-पक्षस्य अभ्यर्थिनस्तथा विपक्ष-नेतुः शुभेंदु अधिकारिणो नामांकन-प्रक्रियायाः समये उत्पन्ने उपद्रवे विषये कोलकाता-नगर-पुलिसेन प्राथमिकी (एफआईआर) पंजीकृता। एषा कार्यवाही निर्वाचन-आयोगस्य अभियोगस्य आधार
सांकेतिक तस्वीर


कोलकाता, 03 अप्रैलमासः (हि. स.)।

भवानीपुरे भाजपा-पक्षस्य अभ्यर्थिनस्तथा विपक्ष-नेतुः शुभेंदु अधिकारिणो नामांकन-प्रक्रियायाः समये उत्पन्ने उपद्रवे विषये कोलकाता-नगर-पुलिसेन प्राथमिकी (एफआईआर) पंजीकृता। एषा कार्यवाही निर्वाचन-आयोगस्य अभियोगस्य आधारे कृता।

गुरुवासरे नामांकन-प्रपत्रं समर्पयितुं पूर्वं शुभेंदु-अधिकारी हाजरा-मोडात् सर्वे-भवन-पर्यन्तं मार्ग-प्रदर्शनम् (रोड-शो) अकरोत्। अस्मिन् मार्ग-प्रदर्शने केन्द्रीय-गृह-मन्त्री अमित शाह अपि उपस्थितः आसीत्। यदा एषः मार्ग-प्रदर्शनः मुख्यमन्त्री ममता बनर्जी इत्यस्याः निवासस्य समीपात् अगच्छत्, तदा वातावरणं सहसा तनावपूर्णम् अभवत्।

आरोपः अस्ति यत् तत्र तृणमूल-काङ्ग्रेस-पक्षस्य समर्थकाः कृष्णवस्त्रं धारयित्वा विरोध-प्रदर्शनम् अकुर्वन्। तस्मिन् समये भाजपा-तृणमूल-पक्षयोः कार्यकर्तृभ्यां मध्ये विवादः आरब्धः, यः शीघ्रमेव धक्का-मुक्क्यां परिणतः।

अस्य घटनायाः अनन्तरं निर्वाचन-आयोगेन जिल्ला-निर्वाचन-अधिकाऱिणः समीपे प्रतिवेदनं याचितम्। तस्य आधारेण कोलकाता-पुलिसेन प्राथमिकी पंजीकृता। शुक्रवासरे पुलिस-स्रोतैः प्राप्तसूचनानुसारं कालीघाट-थानायां एकं तथा अलीपुर-थानायां द्वे अभियोगपत्रे पंजीकृते।

एतेषु प्रकरणेषु भारतीय-न्याय-संहितायाः विभिन्न-धारासु अवैध-समागमः, नारेभ्यः घोषणम्, तनावपूर्ण-परिस्थितेः निर्माणम्, तथा शासकीय-निर्देशानां उल्लङ्घनम् इत्यादयः आरोपाः आरोपिताः। पुलिसदलेन अस्य प्रकरणस्य अन्वेषणम् आरब्धम्।

अस्य घटनाया विषये निर्वाचन-आयोगेन अपि कठोरः दृष्टिकोणः स्वीकृतः। गुरुवासरे आयोजितायां सभायां मुख्य-निर्वाचन-आयुक्तः ज्ञानेश कुमार कोलकाता-पुलिस-आयुक्तं अजय-नन्दम् फट्कारितवान्। तेन विधि-व्यवस्थायाः पालनम् प्रति उपेक्षायाः विषये प्रश्नाः उत्थापिताः, तथा एतादृश-समागमानां अनुमत्यां विषये अपि असन्तोषः व्यक्तः।

भाजपा-पक्षेण प्रतिपादितम् अस्ति यत् तेषां कार्यक्रमाय पूर्वमेव अनुमतिः प्राप्ता आसीत्, यदा तृणमूल-पक्षस्य विरोध-प्रदर्शनाय काचित् अनुमतिः नासीत्।

---------------

हिन्दुस्थान समाचार