Enter your Email Address to subscribe to our newsletters

सीवानः, 03 अप्रैलमासः (हि.स.)।
शिक्षाक्षेत्रे प्रेरणादायिनी पहलरूपेण विकसितं “आइडियल् ४०” निःशुल्क-शिक्षा-केन्द्रम् अस्मिन् वर्षे बिहार-बोर्ड-परीक्षायां उत्कृष्टां सफलतां प्राप्तवद्, आदर्शं स्थापितवान्। आईपीएस-अधिकारी विकाशवैभवस्य “लेट्स् इन्स्पायर् बिहार” इति अभियानस्य अन्तर्गतं सञ्चालिते अस्मिन् केन्द्रे अध्ययनरताः सर्वे छात्राः छात्र्यश्च परीक्षायां सफलतां प्राप्तवन्तः, येन जिलायाः नाम अपि उज्ज्वलितम्।
नगरस्य चित्रगुप्त-मन्दिर-परिसरे स्थितस्य अस्य शिक्षाकेन्द्रस्य विशेषता एषा यत् अत्र आर्थिकदृष्ट्या दुर्बलान् किन्तु मेधाविनः विद्यार्थिनः द्विवर्षपर्यन्तं पूर्णतया निःशुल्क-शिक्षां प्राप्नुवन्ति। अध्ययनसह अत्र आध्यात्मिक-शिक्षा, योगः, ध्यानम् इत्यादीनां विशेष-प्रशिक्षणम् अपि दीयते, येन विद्यार्थिनां सर्वाङ्गीण-विकासः सम्भवति।
अस्मिन् वर्षे आइडियल् ४० संस्थायाः छात्रा मुस्कानकुमारी ९१.४ प्रतिशत-अङ्कान् प्राप्य प्रथमस्थानं प्राप्तवती। आमनाकातून् ९०.४ प्रतिशत-अङ्कान्, सोनूकुमारः ९० प्रतिशत-अङ्कान्, सुनीताकुमारी ९० प्रतिशत-अङ्कान्, अफसरीपरवीन् ८९.२ प्रतिशत-अङ्कान्, प्रीतिकुमारी ८९ प्रतिशत-अङ्कान् च प्राप्य उत्कृष्ट-प्रदर्शनं कृतवन्तः। अन्ये सर्वे विद्यार्थी अपि ७५ प्रतिशताधिक-अङ्कान् प्राप्य सफलतां दर्शितवन्तः।
अस्मिन् अवसरे संस्थापकः डॉ रजनीशवर्मा सर्वान् सफलान् छात्रान् छात्र्यश्च मिष्टान्नेन सत्कृत्य तेषां उत्साहं वर्धितवान्, उज्ज्वल-भविष्यस्य शुभाशंसां च कृतवान्। तेन उक्तं यत्— “संसाधनानां न्यूनता कदापि प्रतिभायाः मार्गे बाधा न भवति; आवश्यकं केवलं सम्यक् मार्गदर्शनं अवसरश्च।”
कार्यक्रमे शिक्षकाः प्रो रविन्द्रपाठकः, सुनीलतिवारी, अरुणकुमारः, राजेशकुमारः, सन्तोषकुमारः, अनिलकुमारपाण्डेयः च उपस्थिताः आसन्। तेन सह वरीय-अधिवक्ता अवधेशश्रीवास्तवः, सामाजिक-कार्यकर्ता शैलेन्द्रवर्मा, भारतभूषणपाण्डेयः, राकेशसिन्हा, रविप्रकाशश्रीवास्तवः, जितेन्द्रशर्मा च सहिताः अनेके गणमान्याः अपि उपस्थिताः आसन्।
आइडियल् ४० संस्थायाः एषा सफलता एतत् सिद्धं करोति यत् सम्यक् दिशा समर्पणं च अस्ति चेत् दरिद्रतमोऽपि विद्यार्थी उच्चशिखराणि स्प्रष्टुं शक्नोति।
---------------
हिन्दुस्थान समाचार