Enter your Email Address to subscribe to our newsletters

लखनऊ, 03 अप्रैलमासः (हि.स.)। केन्द्रीयवित्तराज्यमन्त्री तथा भारतीयजनतादलस्य प्रदेशाध्यक्षः पङ्कजचौधरी शुक्रवासरे नैमिषारण्य-अतिथिगृहे स्त्रीरोगविशेषज्ञाया डॉ. ऋचागंगवारस्याः ‘गर्भसंस्कार’ इति पुस्तकस्य लोकार्पणं कृतवान्। अस्मिन् अवसरॆ भाजपाया प्रदेशमहामन्त्री संजयरायः, विधानपरिषद्सदस्यः अवनीशसिंहपटेलः, एम् एल् सी हरिओमपाण्डेयः, भाजपाया प्रदेशप्रवक्ता आलोकवर्मा, युवामोर्चस्य प्रदेशमन्त्री दीपकमल्लः प्रमुखतया उपस्थिताः आसन्।
पुस्तकस्य लेखिका डॉ. ऋचागंगवार अवदत् यत् गर्भसंस्कारः भारतस्य प्राचीनः जन्मपूर्वज्ञानप्रणाली अस्ति। अस्य अर्थः गर्भसंस्कृतिः, अर्थात् गर्भावस्थायां शिशोः मनसः शरीरस्य आत्मनः च सावधानतया पालनपोषणं करणम्। अद्यतनविज्ञानम् अपि अधुना एतत् स्वीकरोति यत् प्रारम्भिकाः भावाः श्रवणानुभवाः च शिशोः भविष्यं निर्माति।
एरा-चिकित्सामहाविद्यालयस्य प्रोफेसरः डॉ. के. पी. मल्ल अवदत् यत् अस्मिन् पुस्तके दश अध्यायाः सन्ति। गर्भधारणानन्तरं प्रत्येकमासानुसारं अध्यायाः व्यवस्थिताः सन्ति, दशमः अध्यायः तु योगासन-प्राणायामयोः विषये अस्ति। अस्य पुस्तकस्य विशेषता एषा अस्ति यत् प्रत्येकस्य अध्यायस्य अन्ते क्यू आर कोड् निर्दिष्टः अस्ति। तं मोबाइलयन्त्रेण स्कैन कृत्वा महिलाः डॉ. ऋचागंगवारस्याः विडियो-श्रवणं कर्तुं शक्नुवन्ति।
अस्मिन् पुस्तके जीवनशैली, इन्द्रियविकासः, व्यक्तित्वस्य छापः, स्मरणशक्तिः, चेतना, योगः तथा गर्भावस्था इत्यादीनां विषये विस्तरेण वर्णनं कृतम्।
हिन्दुस्थान समाचार