Enter your Email Address to subscribe to our newsletters

मण्डीनगरम्, ०३ अप्रैलमासः – केन्द्रीय-संस्कृतिमन्त्रालयेन ज्ञान-भारतम्-अभियानं स्थाप्यते, यस्मात् देशे प्राचीन-अभिलेखाः, पाण्डुलिपयः च डिजिटलीकरणं भविष्यति। हिमाचलप्रदेशे गतवर्षे पाण्डुलिपिनां सर्वेक्षणं कृतम्। ज्ञान-भारतम-ऐप-द्वारा नागरिकाः स्वपाण्डुलिपिनां चित्राणि संस्थाप्य अभियानं सहयोगं कर्तुं शक्नुवन्ति। एतत् कार्यं भारतीयज्ञानपरंपरायाः संरक्षणं, संवर्धनं च सुनिश्चितं करिष्यति। नष्टपाण्डुलिपिनां संरक्षणं शिमला-राज्यसंग्रहालयेन रासायनिकप्रक्रियया क्रियते।
जनपदराजभाषा-अधिकारी रेवती सैनी अवदत् - गतवर्षेषु राष्ट्रिय-पाण्डुलिपि-अभियानस्य माध्यमेन हिमाचलप्रदेशस्य भाषा-संस्कृति-विभागेन प्रदेशे सर्वेक्षकैः पाण्डुलिपिनां सर्वेक्षणं कृतम्। अधुना अस्य कडीमध्ये केन्द्रीय-संस्कृतिमन्त्रालयेन ज्ञान-भारतम्-अभियानस्य स्थापना कृता।केन्द्रीय-वित्तमन्त्री निर्मला सीतारमणः स्ववित्तविवरण-भाषणे अस्मिन् अभियाने उद्घोषयन् उक्तवान् – भारतीयज्ञानपरम्परायाः संरक्षणे एवं संवर्धने एषः महत्वपूर्णः पगः भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता