ओडिशायाः राज्यपालश्छत्रपति शिवाजेर्महाराजसवय पुण्यतिथौ अददात् श्रद्धांजलिम्
भुवनेश्वरम्, 03 अप्रैलमासः (हि.स.)।ओडिशाराज्यस्य राज्यपालः डॉ. हरिबाबुकंभमपटिः छत्रपति शिवाजी महाराजस्य पुण्यतिथेः अवसरे तस्मै भावपूर्णां श्रद्धाञ्जलिं समर्पितवान्। सः महान् मराठाशासकं वीरतायाः साहसस्य स्वाभिमानस्य च अद्वितीयां दृष्टान्तम् इति वर्ण
ओडिशा के राज्यपाल डॉ. हरि बाबू कंभमपटी


भुवनेश्वरम्, 03 अप्रैलमासः (हि.स.)।ओडिशाराज्यस्य राज्यपालः डॉ. हरिबाबुकंभमपटिः छत्रपति शिवाजी महाराजस्य पुण्यतिथेः अवसरे तस्मै भावपूर्णां श्रद्धाञ्जलिं समर्पितवान्। सः महान् मराठाशासकं वीरतायाः साहसस्य स्वाभिमानस्य च अद्वितीयां दृष्टान्तम् इति वर्णितवान्।

स्वस्य सामाजिकमाध्यमे प्रकाशिते सन्देशे राज्यपालः शिवाजीमहाराजं “हिन्दवीस्वराज्यस्य अमरशिल्पकारः” इति स्मरन् तस्य अदम्यसाहसं पराक्रमं च प्रणम्य नत्वा सम्मानं कृतवान्। सः अवदत् यत् मातृभारत्याः अस्य वीरसपूतस्य त्यागः संघर्षः च युगयुगान्तरं राष्ट्रं प्रेरयिष्यति।

राज्यपालः अग्रे अपि अवदत् यत् छत्रपति शिवाजी महाराजस्य जीवनं आदर्शाः च अद्यापि देशवासिनां कृते प्रेरणास्रोतः सन्ति, तस्य योगदानं च भारतीये इतिहासे सदैव अमार्ज्यं स्थास्यति।

---------------

हिन्दुस्थान समाचार